________________
५८९
[सू० ४६०] पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः ।
[टी०] अनन्तरं संवत्सरप्रमाणेन योनिव्यतिक्रम उक्तः, अधुना स एव संवत्सरश्चिन्त्यते इति, पंच संवच्छरेत्यादिसूत्रचतुष्टयम्, तत्र नक्खत्तसंवच्छरे त्ति, इह चन्द्रस्य नक्षत्रमण्डलभोगकालो नक्षत्रमास:, स च सप्तविंशति: दिनानि एकविंशति: सप्तषष्टिभागा दिवसस्येति २७४४ । एवंविधद्वादशमासो नक्षत्रसंवत्सर: १, स चायम्- त्रीणि शतान्यह्नां सप्तविंशत्युत्तराणि एकपञ्चाशच्च सप्तषष्टिभागा इति ३२७ ११ । पञ्चसंवत्सरात्मकं युगं 5 तदेकदेशभूतो वक्ष्यमाणलक्षणश्चन्द्रादियुगसंवत्सरः २, प्रमाणं परिमाणं दिवसादीनां तेनोपलक्षितो वक्ष्यमाण एव नक्षत्रसंवत्सरादि: प्रमाणसंवत्सर: ३, स एव लक्षणानां वक्ष्यमाणस्वरूपाणां प्रधानतया लक्षणसंवत्सर: ४, यावता कालेन शनैश्चरो नक्षत्रमेकमथवा द्वादशापि राशीन् भुङ्क्ते स शनैश्चरसंवत्सर इति, यतश्चन्द्रप्रज्ञप्तिसूत्रम्- सनिच्छरसंवच्छरे अट्ठावीसविहे पन्नत्ते अभीई सवणे जाव उत्तरासाढा, जं वा सनिच्छरे महग्गहे तीसाए संवच्छरेहिं 10 सव्वं नक्खत्तमंडलं समाणेइ [चन्द्र० १०।२०।५८] त्ति ।
युगसंवत्सरः पञ्चविधः, तद्यथा- चंदे त्ति एकोनविंशद्दिनानि द्वात्रिंशच्च द्विषष्टिभागा दिवसस्येत्येवंप्रमाण: २९ ३२ , कृष्णप्रतिपदारब्धः पूर्णमासीनिष्ठितश्चन्द्रमासः, तेन मासेन द्वादशमासपरिमाणश्चन्द्रसंवत्सरः, तस्य च प्रमाणमिदम्- त्रीणि शतान्यह्नां चतुःपञ्चाशदुत्तराणि द्वादश च द्विषष्टिभागा: ३५४ १२, एवं द्वितीय-चतुर्थावपि 15 चन्द्रसंवत्सरौ, अभिवड्डिए त्ति एकत्रिंशद्दिनानि एकविंशत्युत्तरशतं चतुर्विंशत्युत्तरशतभागानामभिवर्द्धितमास: ३११२१, एवंविधेन मासेन द्वादशमासप्रमाणोऽभिवर्द्धितसंवत्सरः, स च प्रमाणेन त्रीणि शतान्यह्नां त्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्विषष्टिभागा: ३८३४७ । इत्येवं पञ्चमोऽपि, एभिश्चान्द्रादिभिः पञ्चभिः संवत्सरैरेकं युगं भवति, तेषां चं पञ्चानां संवत्सराणां मध्ये अभिवर्द्धिताख्ये संवत्सरे अधिकमासक: पततीति । 20
प्रमाणसंवत्सरः पञ्चविधः, तत्र नक्षत्र इति नक्षत्रसंवत्सरः, सच उक्तलक्षण:, केवलं तत्र नक्षत्रमण्डलस्य चन्द्रभोगमात्रं विवक्षितमिह तु दिन-दिनभागादिप्रमाणमिति, तथा चन्द्राभिवर्द्धितावप्युक्तलक्षणावेव किन्तु तत्र युगावयवतामात्रमिह तु प्रमाणमिति विशेष:, उऊ इति ऋतुसंवत्सरः, त्रिंशदहोरात्रप्रमाणेीदशभिः ऋतुमासै: सावनमास
१. च नास्ति जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org