________________
५८६
५८६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
[टी०] योऽयं वनीपकः उक्तः स साधुविशेष:, साधुश्चाचेलो भवतीत्यचेलत्वस्य प्रशंसास्थानान्याह- पंचहीत्यादि प्रतीतम्, नवरं न विद्यन्ते चेलानि वासांसि यस्यासावचेलकः, स च जिनकल्पिकविशेषस्तदभावादेव, तथा जिनकल्पिकविशेष:
स्थविरकल्पिकश्चाल्पा-ऽल्पमूल्य-सप्रमाण-जीर्ण-मलिनवसनत्वादिति, प्रशस्त: 5 प्रशंसितः, तीर्थकरादिभिरिति गम्यते, अल्पा प्रत्युपेक्षाऽचेलकस्य स्यादिति गम्यम्, प्रत्युपेक्षणीयतथाविधोपधेरभावाद्, एवं च न स्वाध्यायादिपरिमन्थ इति, तथा लघो वो लाघवम्, तदेव लाघविकं द्रव्यतः, भावतोऽपि रागविषयाभावात्, प्रशस्तम् अनिन्द्यं स्यात्, तथा रूपं नेपथ्यं वैश्वासिकं विश्वासप्रयोजनमलिप्सुतासूचकत्वात् स्यादिति, तथा तप: उपकरणसंलीनतारूपमनुज्ञातं जिनानुमतं स्यात्, तथा विपुलो महा10 निन्द्रियनिग्रहः स्याद्, उपकरणं विना स्पर्शनप्रतिकूलशीत-वाता-ऽऽतपादिसहनादिति।
[सू० ४५६] पंच उक्कला पन्नत्ता, तंजहा- दंडुक्कले, रज्जुक्कले, तेणुक्कले देसुक्कले, सव्वुक्कले ।
[टी०] इन्द्रियनिग्रहश्च सत्त्वेनोत्कटैरेव कर्तुं शक्य इत्युत्कटभेदानाह- पंचेत्यादि सुगमम्, नवरम् उक्कल त्ति उत्कटा उत्कला वा, तत्र दण्डः आज्ञा अपराधिदण्डनं 15 वा सैन्यं वा उत्कटः प्रकृष्टो यस्य तेन वोत्कटो य: स दण्डोत्कट:, दण्डेन वोत्कलति
वृद्धिं याति य स दण्डोत्कल:, इत्येवं सर्वत्र, नवरं राज्यं प्रभुता, स्तेना: चौरा:, देशो मण्डलम्, सर्वम् एतत्समुदय इति ।
[सू० ४५७] पंच समितीतो पन्नत्ताओ, तंजहा- इरियासमिती, भासासमिती, जाव पारिट्ठावणियासमिती ।। 20 [टी०] असंयतो दण्डादिभिरुत्कटो भवति, संयतस्तु समितिभिरिति समिती: प्राहपंचेत्यादि सुगमम्, नवरं सम् एकीभावेनेति: प्रवृत्ति: समिति: शोभनैकाग्रपरिणामस्य
चेष्टेत्यर्थः, ईरणमीर्या गमनमित्यर्थः, तत्र समितिरीर्यासमिति:, उक्तं च– ईर्यासमितिर्नाम रथ-शकट-यान-वाहनाक्रान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुकविविक्तेषु युगमात्रदृष्टिना भूत्वा गमनागमनं कत्तय॑म् [आव० हारि० ] इति । तथा भाषणं भाषा, तस्यां समितिर्भाषासमिति:, १. पकरूपः स खं० । पक उक्तरूप: स जेसं० १ ॥२. राधे द पा० ॥ ३. आवश्यकसूत्रस्य चतुर्थे प्रतिक्रमणाध्ययने ‘पडिक्कमामि पंचहिं समिईहिं...' इति सूत्रस्य हारिभत्र्यां वृत्तौ सर्वमिदं द्रष्टव्यम् । दृश्यतां प्रथमं परिशिष्टमत्र ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org