________________
५८२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे विद्यया राजपूज्य: स्याद्विद्यया कामिनीप्रियः ।। विद्या हि सर्वलोकस्य वशीकरणकार्मणम् ॥ [ ] इति, तथा धननिधि: कोशः, धान्यनिधि: कोष्ठागारमिति ।
[सू० ४४९] पंचविधे सोते पन्नत्ते, तंजहा- पुढविसोते, आउसोते, तेउसोते, 5 मंतसोते, बंभसोते ।
[टी०] अनन्तरं निधिरुक्तः, स च द्रव्यत: पुत्रादि वतस्तु कुशलानुष्ठानरूपं ब्रह्म, तत् पुन: शौचतया बिभणिषुः प्रसङ्गेन शेषाण्यपि शौचान्याह- पंचविहेत्यादि व्यक्तम्, नवरं शुचेर्भाव: शौचम्, शुद्धिरित्यर्थः, तच्च द्विधा- द्रव्यतो भावतश्च, तत्राद्यं चतुष्टयं
द्रव्यशौचम्, पञ्चमं तु भावशौचम्, तत्र पृथिव्या मृत्तिकया शौचं 10 जुगुप्सितमलगन्धयोरपनयनं शरीरादिभ्यो घर्षणोपलेपनादिनेति पृथिवीशौचम्, इह च पृथिवीशौचाभिधानेऽपि यत् परैस्तल्लक्षणमभिधीयते, यदुत
एका लिङ्गे गुदे तिम्रस्तथैकत्र करे दश । उभयो: सप्त विज्ञेया मृदः शुद्धौ मनीषिभिः ॥
एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । 15 त्रिगुणं वानप्रस्थानां यतीनां च चतुर्गुणम् ॥ [ ] इति,
तदिह नाभिमतम्, गन्धाधुपघातमात्रस्य शौचत्वेन विवक्षितत्वात्, तस्यैव च युक्तियुक्तत्वात् इति १, तथा अद्भिः शौचमप्शौचं प्रक्षालनमित्यर्थ: २, तेजसाऽग्निना तद्विकारेण वा भस्मना शौचं तेजःशौचम् ३, एवं मन्त्रशौचं शुचिविद्यया ४, ब्रह्म
ब्रह्मचर्यादि कुशलानुष्ठानम्, तदेव शौचं ब्रह्मशौचम् ५, अनेन च सत्यादिशौचं 20 चतुर्विधमपि सङ्ग्रहीतम्, तच्चेदम्
सत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं जलशौचं च पञ्चमम् ॥ [ ] इति, लौकिकैः पुनरिदं सप्तधोक्तम्, यदाह
सप्त स्नानानि प्रोक्तानि स्वयमेव स्वयंभुवा । 25 द्रव्य-भावविशुद्ध्यर्थमृषीणां ब्रह्मचारिणाम् ॥
१. °लेपादिनेति जे१ खं० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org