________________
५८३
[सू० ४५०-४५१] पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः ।
आग्नेयं वारुणं ब्राह्मं वायव्यं दिव्यमेव च । पार्थिवं मानसं चैव स्नानं सप्तविधं स्मृतम् ॥ आग्नेयं भस्मना स्नानमवगाह्यं तु वारुणम् । आपोहृष्टामयं ब्राह्मं वायव्यं तु गवां रजः ॥ सूर्यदृष्टं तु यद् दृष्टं तद्दिव्यमृषयो विदुः ।। पार्थिवं तु मृदा स्नानं मनःशुद्धिस्तु मानसम् ॥ [ ] इति ।
[सू० ४५०] पंच ठाणाई छउमत्थे सव्वभावेणं ण जाणति ण पासति, तंजहा- धम्मत्थिकातं, अधम्मत्थिकातं, आगासत्थिकायं, जीवं असरीरपडिबद्धं, परमाणुपोग्गलं ।
एताणि चेव उप्पन्ननाणदंसणधरे अरहा जिणे केवली सव्वभावेणं जाणति 10 पासति धम्मत्थिकातं जाव परमाणुपोग्गलं ।
[टी०] अनन्तरं ब्रह्मशौचमुक्तम्, तच्च जीवशुद्धिरूपम्, जीवं च छद्मस्थो न जानाति केवली तु जानातीति सम्बन्धाच्छद्मस्थ-केवलिनोरज्ञेय-ज्ञेयवस्तुप्रतिपादनाय सूत्रद्वयमाहछउमत्थेत्यादि सुगमम्, नवरं छद्मस्थ इहावध्याद्यतिशयविकलो गृह्यते, अन्यथा अमूर्त्तत्वेन धर्मास्तिकायादीन् अजानन्नपि परमाणुं जानात्येवासौ मूर्तत्वात्तस्य । अथ 15 सर्वभावेनेत्युक्तं ततश्च तं कथञ्चिजानन्नप्यनन्तपर्यायतया न जानातीति, एवं तर्हि सङ्ख्यानियमो व्यर्थ: स्यात्, घटादीनां सुबहूनामर्थानामकेवलिना सर्वपर्यायतया ज्ञातुमशक्यत्वादिति, सव्वभावेणं ति च साक्षात्कारेण, श्रुतज्ञानेन त्वसाक्षात्कारेण जानात्येव, जीवमशरीरप्रतिबद्धं देहमुक्तम्, परमाणुश्चासौ पुद्गलश्चेति विग्रहः, व्यणुकादीनामुपलक्षणमिदम् ।।
20 [सू० ४५१] अधेलोगे णं पंच अणुत्तरा महतिमालता महाणिरया पन्नत्ता, तंजहा- काले, महाकाले, रोरुते, महारोरुते, अप्पतिट्ठाणे ।
उड्डलोगे णं पंच अणुत्तरा महतिमहालता महाविमाणा पन्नत्ता, तंजहाविजये, वेजयंते, जयंते, अपराजिते, सव्वट्ठसिद्धे । - [टी०] यथैतान्यतीन्द्रियाणि जिनः पञ्च जानाति तथाऽन्यदप्यतीन्द्रियं 25 १-२. ब्राह्मयं खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org