SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ 10 [सू० ४४८] पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः । तथा गृहपति: शय्यादाता, सोऽपि निश्रास्थानम्, स्थानदानेन संयमोपकारित्वात्, तदुक्तम् धृतिस्तेन दत्ता मतिस्तेन दत्ता गतिस्तेन दत्ता सुखं तेन दत्तम् । गुणश्रीसमालिङ्गितेभ्यो वरेभ्यो मुनिभ्यो मुदा येन दत्तो निवासः ॥ [ ] तथाजो देइ उवस्सयं जइवराण तवनियमजोगजुत्ताणं । तेणं दिन्ना वत्थन्नपाणसयणासणविगप्पा ॥ [ ] इति, तथा शरीरं काय:, अस्य च धर्मोपग्राहिता स्फुटैव, यतोऽवाचिशरीरं धर्मसंयुक्तं रक्षणीयं प्रयत्नतः । शरीराच्छ्रवते धर्म: पर्वतात् सलिलं यथा ॥ [ ] इति, भवति चात्रार्याधर्मं चरत: साधोर्लोके निश्रापदानि पञ्चैव ।। राजा गृहपतिरपरः षट्काया गण-शरीरे च ॥ [ ] इति, शेषं सुगमम् ।। [सू० ४४८] पंच णिही पन्नत्ता, तंजहा- पुत्तणिही, मित्तणिही, सिप्पणिही, धणणिही, धन्नणिही । [टी०] श्रमणस्य निश्रास्थानान्युक्तानि, अथ लौकिकं निधिलक्षणं निश्रास्थानं पञ्चधा प्रतिपायदन्नाह- पंच निहीत्यादि सुगमम्, नवरं नितरां धीयते स्थाप्यते यस्मिन् स 15 निधि:विशिष्टरत्न-सुवर्णादिद्रव्यभाजनम्, तत्र निधिरिव निधिः पुत्रश्चासौ निधिश्च पुत्रनिधिः, द्रव्योपार्जकत्वेन पित्रोर्निर्वाहहेतुत्वादत एव स्वभावेन च तयोरानन्दसुखकरत्वाच्च, अत्रोक्तं परैः जन्मान्तरफलं पुण्यं तपोदानसमुद्भवम् । सन्तति: शुद्धवंश्या हि परत्रेह च शर्मणे ॥ [ ] इति । तथा मित्रं सुहृत्, तच्च तन्निधिश्चेति मित्रनिधिरर्थ-कामसाधकत्वेनानन्दहेतुत्वात्, तदुक्तम् कुतस्तस्यास्तु राज्यश्री: कुतस्तस्य मृगेक्षणा: । यस्य शूरं विनीतं च नास्ति मित्रं विचक्षणम् ? ॥ [ ] शिल्पं चित्रादिविज्ञानम्, तदेव निधि: शिल्पनिधि:, एतच्च विद्योपलक्षणम्, तेन 25 विद्या निधिरिव पुरुषार्थसाधनत्वाद्, अत्रोक्तम् 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy