________________
10
५८०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे तान्येवाह- धम्ममित्यादि, धर्मं श्रुत-चारित्ररूपम्, णमित्यलङ्कारे, चरत: सेवमानस्य, पञ्च निश्रास्थानानि आलम्बनस्थानानि, उपग्रहहेतव इत्यर्थः, षट् काया: पृथिव्यादय:, तेषां च संयमोपकारिताऽऽगमप्रसिद्धा, तथाहि- पृथिवीकायमाश्रित्योक्तम्
ठाण-निसीय-तुयट्टण-उच्चाराईण गहण निक्खेवे । घट्टग-डगलग-लेवो एमाइ पओयणं बहुहा ॥ [ओघनि० ३४२] अप्कायमाश्रित्यपरिसेय-पियण-हत्थाइधोयणे चीरधोयणे चेव । आयमण-भाणधुवणे एमाइ पओयणं बहुहा ॥ [ओघनि० ३४७] तेजस्कायं प्रतिओयण वंजण पाणग आयामुसिणोदगं च कुम्मासा । डगलग-सरक्ख-सूई-पिप्पलमाई य उवओगो ॥ [ओघनि० ३५९] वायुकायमभिदइएण वत्थिणा वा पओयणं होज वाउणा मुणिणो । गेलन्नम्मि वि होज्जा सचित्तमीसे परिहरेजा ॥ [ओघनि० ३६२] वनस्पतिं प्रतिसंथार-पाय-दंडग-खोमियकप्पा य पीठ-फलगाई ।
ओसह-भेसजाणि य एमाइ पओयणं तरुसु ॥ [ओघनि० ३६४] त्रसकाये पञ्चेन्द्रियतिरश्च आश्रित्योक्तम्15 चम्मट्ठि-दंत-नह-रोम-सिंग-अमिलाइछगण-गोमुत्ते ।
खीर-दहिमाइयाणं पंचेंदियतिरियपरिभोगो ॥ [ओघनि० ३६८]
एवं विकलेन्द्रिय-मनुष्य-देवानामप्युपग्रहकारिता वाच्या । तथा गणो गच्छ:, तस्य चोपग्राहिता- एक्कस्स कओ धम्मो [उप०माला० १५६-१६१] इत्यादिगाथापूगादवसेया, तथा
गुरुपरिवारो गच्छो तत्थ वसंताण निजरा विउला । 20 विणयाउ तहा सारणमाईहिं न दोसपडिवत्ती ॥
अन्नोन्नावेक्खाए जोगम्मि तहिं तहिं पयर्टतो । नियमेण गच्छवासी असंगपयसाहगो नेओ ॥ [पञ्चवस्तु० ६९६, ६९९] इति । तथा राजा नरपतिः, तस्य धर्मसहायकत्वं दुष्टेभ्य: साधुरक्षणाद्, उक्तं च लौकिकै:क्षुद्रलोकाकुले लोके, धर्मं कुर्युः कथं हि ते । क्षान्ता दान्ता अहन्तारश्चेद्राजा तान्न रक्षति ॥ [ ] तथाअराजके हि लोकेऽस्मिन्, सर्वतो विद्रुते भयात् । रक्षार्थमस्य सर्वस्य, राजानमसृजत् प्रभुः ॥ [ ] इति, १. पिण्डनि० १५॥१. पिण्डनि०२३ ।। ३. पिण्डनि०३७॥४. पिण्डनि० ४२।। ५. पिण्डनि० ४६॥६. पिण्डनि०५०॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org