________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे नासंयमात् पृथग्भूत: घृष्टजङ्घः तैलादिकृतशरीरमृजः कतरिकाकल्पितकेशश्च परिवारो येषामिति भाव:, बहुच्छेदशबलयुक्ता: सर्व-देशच्छेदाहा॑तिचारजनितशबलत्वेन युक्ता निर्ग्रन्थबकुशा इति । तथा कुत्सितं उत्तरगुणप्रतिषेवया सज्वलनकषायोदयेन वा
दूषितत्वात् शीलम् अष्टादशशीलाङ्गसहस्रभेदं यस्य स कुशील इति, एषोऽपि द्विविध 5 एव, अत्राप्युक्तम्- द्विविधाः कुशीला: प्रतिसेवनकुशीला: कषायकुशीलाश्च [तत्त्वार्थभा० सिद्ध० ९।४८], तत्र ये नैर्ग्रन्थ्यं प्रति प्रस्थिता: अनियतेन्द्रिया: कथञ्चित किञ्चिदेवोत्तरगणेष पिण्डविशुद्धि-समिति-भावना-तपः-प्रतिमा-ऽभिग्रहादिषु विराधयन्तः सर्वज्ञाज्ञोल्लङ्घनमाचरन्ति ते प्रतिसेवनाकुशीला:, येषां तु संयतानामपि सतां
कथञ्चित्सज्वलनकषाया उदीर्यन्ते ते कषायकुशीला:, निर्गतो ग्रन्थान्मोहनीयाख्यात् 10 निर्ग्रन्थ: क्षीणकषाय उपशान्तमोहो वा, क्षालितसकलघातिकर्ममलपटलत्वात् स्नात इव
स्नात:, स एव स्नातकः, सयोगोऽयोगो वा केवलीति । __ अधुनैत एव भेदत उच्यन्ते, तत्र पुलाक इत्यासेवापुलाकः पञ्चविधः, लब्धिपुलाकस्यैकविधत्वात्, तत्र स्खलित-मिलितादिभिरतिचारैर्ज्ञानमाश्रित्यात्मानम्
असारं कुर्वन् ज्ञानपुलाकः, एवं कुदृष्टिसंस्तवादिभिर्दर्शनपुलाकः, मूलोत्तरगुण15 प्रतिसेवनातश्चरणपुलाकः, यथोक्तलिङ्गाधिकग्रहणात् निष्कारणेऽन्यलिङ्गकरणाद्वा लिङ्गपुलाकः, किञ्चित्प्रमादान्मनसाऽकल्प्यग्रहणाद्वा यथासूक्ष्मपुलाको नाम पञ्चम इति ।
बकुशो द्विविधोऽपि पञ्चविधः, तत्र शरीरोपकरणभूषयोः सञ्चिन्त्यकारी आभोगबकुशः, सहसाकारी अनाभोगबकुश:, प्रच्छन्नकारी संवृतबकुशः, प्रकटकारी 20 असंवृतबकुशः, मूलोत्तरगुणाश्रितं वा संवृतासंवृतत्वम्, किञ्चित्प्रमादी अक्षिमलाद्यपनयन् वा यथासूक्ष्मबकुशो नाम पञ्चम इति ।।
कुशीलो द्विविधोऽपि पञ्चविधः, तत्र ज्ञान-दर्शन-चारित्र-लिङ्गान्युपजीवन् प्रतिषेवणतो ज्ञानादिकुशीलः, लिङ्गस्थाने क्वचित्तपो दृश्यते, तथा अयं तपश्चरतीत्येवमनुमोद्यमानो हर्षं गच्छन् यथासूक्ष्मकुशील: प्रतिषेवणयैवेति, कषायकुशीलोऽप्येवम्, नवरं क्रोधादिना 25 विद्यादिज्ञानं प्रयुञ्जानो ज्ञानकुशील:, दर्शनग्रन्थं प्रयुञ्जानो दर्शनत:, शापं ददत् चारित्रतः,
कषायैर्लिङ्गान्तरं कुर्वन् लिङ्गतः, मनसा कषायान् कुर्वन् यथासूक्ष्म: । चूर्णिकारव्याख्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org