________________
[सू० ४४५ ]
पञ्चममध्ययनं पञ्चस्थानकम् । तृतीय उद्देशकः ।
बउसे पंचविधे पन्नत्ते, तंजहा- आभोगबउसे, अणाभोगबउसे, संवुडबउसे, असंवुडबउसे, अहासुहुमबउसे नामं पंचमे ३।
कुसीले पंचविधे पन्नत्ते, तंजहा णाणकुसीले, दंसणकुसीले चरित्तकुसीले, लिंगकुसीले, अहासुहुमकुसीले नामं पंचमे ४ |
नियंठे पंचविहे पन्नत्ते, तंजहा- पढमसमयनियंठे, अपढमसमयनियंठे, 5 चरिमसमयनियंठे, अचरिमसमयनियंठे, अहासुहुमनियंठे नामं पंचमे ५ |
सिणा पंचविधे पन्नत्ते, तंजहा - अच्छवी, असबले, अकम्मंसे, संसुद्धणाणदंसणधरे अरहा जिणे केवली, अपरिस्सावी ६ ।
[टी०] पूर्वं पञ्चेन्द्रिया उक्ताः इति पञ्चेन्द्रियविशेषानाह, अथवा अनन्तरं सचेतनाचेतना वायव उक्ता:, तांश्च रक्षन्ति निर्ग्रन्था एवेति तानाह - पंच नियंठेत्यादि सूत्रषट्कं सुगमम्, 10 नवरं ग्रन्थादान्तरान्मिथ्यात्वादेर्बाह्याच्च धर्मोपकरणवर्जाद्धनादेर्निर्गता निर्ग्रन्थाः, पुलाक: तन्दुलकणशून्या पलञ्जिः, तद्वद् यः तपः श्रुतहेतुकायाः सङ्घादिप्रयोजने चक्रवत्र्त्यादेरपि चूर्णनसमर्थायाः लब्धेरुपजीवनेन ज्ञानाद्यतिचारासेवनेन वा संयमसाररहितः स पुलाकः, अत्रोक्तम् - जिनप्रणीतादागमात् सदैवाप्रतिपातिनो ज्ञानानुसारेण क्रियानुष्ठायिनो लब्धिमुपजीवन्तो निर्ग्रन्थपुलाका भवन्ती [ तत्त्वार्थभा० सिद्ध० ९ ४८ ] ति, बकुशः शबल:, कर्बुर इत्यर्थः, शरीरोपकरणविभूषानुवर्त्तितया शुद्ध्यशुद्धिव्यतिकीर्णचरण इति, अयमपि द्विविध:, यदाह— मोहनीयक्षयं प्रति प्रस्थिताः शरीरोपकरणविभूषानुवर्त्तिनः [ तत्त्वार्थभा० सिद्ध० ९।४८] तत्र शरीरे अनागुप्तव्यंतिकरेण कर-चरण - वदनप्रक्षालनमक्षि-कर्णनासिकाद्यवयवेभ्योऽपि दूषिकामलाद्यपनयनं दन्तपवनलक्षणं केशसंस्कारं च देहविभूषार्थमाचरन्तः शरीरबकुशाः, उपकरणबकुशास्तु अकाल एव प्रक्षालितचोल - 20 पट्टकान्तरकल्पादिचोक्षवासः प्रियाः पात्र - दण्डकाद्यपि तैलमात्रयोज्ज्वलीकृत्य विभूषार्थमनुवर्त्तमाना बिभ्रति, उभयेऽपि च ऋद्धियशस्कामाः- तत्र ऋद्धिं प्रभूतवस्त्रपात्रादिकां ख्यातिं च गुणवन्तो विशिष्टाः साधव इत्यादिप्रवादरूपां कामयन्ते, सातगौरवमाश्रिताः नातीवाहोरात्राभ्यन्तरानुष्ठेयासु क्रियास्वभ्युद्यताः, अविविक्तपरिवारा:१. सचेतना वायव जेमू१ । सचेतनाअचेतना वायव जेसं १ । २. “ अनागुप्तव्यतिरेकेण”- तत्त्वार्थसिद्ध० ९।४८। दृश्यतां प्रथमपरिशिष्टम् ॥
Jain Education International
For Private & Personal Use Only
५७५
15
www.jainelibrary.org