________________
[सू० ४३८]
पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः ।
निर्गतः प्रत्यागत उत्सर्गेण तावद्वसतेर्बहिरेव पादौ प्रस्फोटयति, अथ तत्र सागारिक भवेत्तदा वसतेरन्तः प्रस्फोटयेत्, प्रस्फोटनं च प्रमार्जनविशेषस्तच्च चक्षुर्व्यापारलक्षणप्रत्युपेक्षणपूर्वकमितीह सप्त भङ्गाः, तत्र न प्रत्युपेक्षते न प्रमार्ष्टि चेत्येकः, न प्रत्युपेक्षते प्रमार्ष्टति द्वितीय:, प्रत्युपेक्षते न प्रमाति तृतीय:, प्रत्युपेक्षते प्रमार्ष्टि चेति चतुर्थः, यत्तत्प्रत्युपेक्ष्यते प्रमार्ज्यते च तद्दुष्प्रत्युपेक्षितं दुष्प्रमार्जितं वा दुष्प्रत्युपेक्षितं 5 सुप्रमार्जितं वा ५ सुप्रत्युपेक्षितं दुष्प्रमार्जितं वा ६ सुप्रत्युपेक्षितं सुप्रमार्जितं वा ७ करोति, इह च सप्तमः शुद्धः शेषेष्वसमाचारीति, यदि तु सागारिकश्चलस्ततः सप्ततालमात्रं सप्तपदावक्रमणमात्रं वा कालं बहिरेव स्थित्वा तस्मिन् गते पादौ प्रस्फोटयेत्, उक्तं चअइवाइगम्मि बाहिं अच्छंति मुहुत्तगं थेर [ व्यवहारभा० २५२४] त्ति । अतिपातितोऽस्थिरः, ततो वसतौ प्रविशेत् ।
कः केन चास्य पादौ प्रमार्जयतीत्युच्यते
आभिग्गहियस्स असई तस्सेव रओहरेण अन्नयरो । तस्यैवेत्याचार्यस्यैव पाउंछणुन्निएण व पुंछइ उ अणन्नभुत्तेणं ॥ [ व्यवहारभा० २५२६ ] ति ।
वसतेरन्तः प्रविष्टस्य चायं विधिः- विपुलायां वसतावपरिभोगस्थाने सङ्कटायां चात्मसंस्तारकावकाशे उपविष्टस्य पादौ प्रमार्जनीयौ, अन्यस्यापि गणावच्छेदिकादेरयमेव 15 विधि:, केवलमन्यो बहिश्चिरतरं तिष्ठतीति, उक्तं च
विपुलाए अपरिभोगे अत्तणओवासए व बेट्ठस्स ।
एमेव य भिक्खुस्स वि नवरं बाहिं चिरयरं तु ॥ [ व्यवहारभा० २५२७] एतावानेव चायमतिशयो यदसौ न चिरं बहिरास्ते, अथ चिरं तिष्ठतः के दोषा इति ?, उच्यते
५६५
Jain Education International
For Private & Personal Use Only
10
तण्हुण्हभावियस्सा सुकुमाराचार्यस्य पडिच्छमाणस्स बहिस्तात् मुच्छमाया । खद्धाइयणगिलाणे प्रचुरद्रवपाने ग्लानत्वे सुत्तत्थविराहणा चेव ॥ [ व्यवहारभा० २५३३] इत्यादि।
शेषसाधवस्तु चिरमपि बहिस्तिष्ठन्ति, न च दोषाः स्युः, जितश्रमत्वाद्, आह चदसविहवेयावच्चे सग्गाम बहिं च निच्चवायामो ॥ सीउण्हसहा भिक्खू ण य हाणी वायणाईया । [ व्यवहारभा० २५३९-४०] इत्येकोऽतिशयः। 25 १. वा जे१ विना नास्ति ॥
20
www.jainelibrary.org