SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ 5 ५६४ 15 अट्ठोत्ति जीए कज्जं संजायं एस अट्ठजाया उ । तं पुण संजमभावा चालिज्जंतीं समवलंबे ॥ [ बृहत्कल्प० ६२८६ ] ति पञ्चममिति ॥ [सू० ४३८ ] आयरियउवज्झायस्स णं गणंसि पंच अतिसेसा पन्नत्ता, तंजहा - आयरियउवज्झाए अंतो उवस्सगस्स पाए निगिज्झिय निगिज्झिय पप्फोडेमाणे वा पमज्जेमाणे वा णातिक्कमति १, आयरियउवज्झाए अंतो 10 उवस्सगस्स उच्चारपासवणं विगिंचमाणे वा विसोहमाणे वा णातिक्कमति २, आयरियउवज्झाए पभू इच्छा वेयावडियं करेज्जा इच्छा णो करेजा ३, आयरियउवज्झाए अंतो उवस्सगस्स एगरायं वा दुरातं वा वसमाणे णाइक्कमइ ४, आयरियउवज्झाए बाहिं उवस्सगस्स एगरातं वा दुरातं वा वसमाणे णातिक्कमति ५। [टी०] अनन्तरं येषु स्थानेषु वर्त्तमानो निर्ग्रन्थो धर्मं नातिक्रामति तान्युक्तानि, अधुना तद्विशेष आचार्यो येष्वतिशयेषु वर्त्तमानस्तं नातिक्रामति तानाह - आयरित्यादि, आचार्यश्चासावुपाध्यायश्चेत्याचार्योपाध्यायः, स हि केषाञ्चिदर्थदायकत्वादाचार्योऽन्येषां सूत्रदायकत्वादुपाध्याय इति तस्य, आचार्योपाध्याययोर्वा, न शेषसाधूनाम्, गणे साधुसमुदाये वर्त्तमानस्य वर्त्तमानयोर्वा गणविषये वा शेषसाधुसमुदायापेक्षयेत्यर्थः 20 पञ्चातिशेषाः अतिशयाः प्रज्ञप्ताः, तद्यथा - आचार्योपाध्यायोऽन्तः मध्ये उपाश्रयस्य वसतेः पादौ निगृह्य निगृह्य पादधूलेरुद्धयमानाया निग्रहं वचनेन कारयित्वा यथाऽन्ये धूल्या न भ्रियन्ते तथेत्यर्थः, प्रस्फोटयन् वा आभिग्रहिकेनान्येन वा साधुना स्वकीयरजोहरणेन ऊर्णिकपादप्रोञ्छनेन वा प्रस्फोटनं कारयन्, झाटयन्नित्यर्थः, प्रमार्जयन् वा शनैर्लूषयन् नातिक्रामतीति, इह च भावार्थ इत्थमास्थितः - आचार्यः कुलादिकार्येण १. परिन्नीए जे१ खं० ॥ २. 'जतं यया जे१ विना ॥। ३. निगृह्य पाद खं० पा० ॥ आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे अट्ठ वा हेउ वा समणीणं विरहिए कहिंतस्स । १ मुच्छाए विवडियाए कप्पड़ गहणं परिन्नाए ॥ [ बृहत्कल्प ० ६२८२] इति । तथा अर्थ: कार्यमुत्प्रव्राजनतः स्वकीयपरिणेत्रादेर्जातो यया साऽर्थजाता पतिचौरादिना संयमाच्चाल्यमानेत्यर्थस्तां वा, इह गाथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy