________________
५५७
[सू० ४३१-४३३] पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः ।
[टी०] पंचेंदिया णमित्यादि, इह सप्तशप्रकारसंयमभेदस्य पञ्चेन्द्रियसंयमलक्षणस्येन्द्रियभेदेन भेदविवक्षणात् पञ्चविधत्वम्, तत्र पञ्चेन्द्रियानारम्भे श्रोत्रेन्द्रियस्य व्याघातपरिवर्जनं श्रोत्रेन्द्रियसंयमः, एवं चक्षुरिन्द्रियसंयमादयोऽपि वाच्या: । असंयमसूत्रमेतद्विपर्यासेन बोद्धव्यमिति । सव्वपाणेत्यादि, पूर्वमेकेन्द्रियपञ्चेन्द्रियजीवाश्रयेण संयमा-ऽसंयमावुक्ताविह तु सर्वजीवाश्रयेणात एव सर्वग्रहणं 5 कृतमिति, प्राणादीनां चायं विशेष:प्राणा द्वित्रिचतुः प्रोक्ता भूतास्तु तरव: स्मृताः । जीवा: पञ्चेन्द्रिया ज्ञेया: शेषाः सत्त्वा इतीरिता: ॥ [ ] इति ।
इह सप्तदशप्रकारसंयमस्याद्या नव भेदा: सगृहीता:, एकेन्द्रियसंयमग्रहणेन पृथिव्यादिसंयमपञ्चकस्य गृहीतत्वादिति, एतद्व्यत्ययेनासंयमसूत्रम् ।
10 [सू० ४३१] पंचविधा तणवणस्सतिकातिता पन्नत्ता, तंजहा- अग्गबीया, मूलबीया, पोरबीया, खंधबीया, बीयरुहा ।
[टी०] तणवणस्सइ ति तृणवनस्पतयो बादरा वनस्पतयोऽग्रबीजादय: क्रमेण कोरण्टका उत्पलकन्दा वंशाः शल्लक्यो वटा एवमादयः, व्याख्यातं चैतत् प्रागिति ।
[सू० ४३२] पंचविधे आयारे पन्नत्ते, तंजहा- णाणायारे, दंसणायारे, 15 चरित्तायारे, तवायारे, वीरियायारे ।
[टी०] आचरणमाचारो ज्ञानादिविषयाऽऽसेवेत्यर्थः, ज्ञानाचारः कालादिरष्टधा, दर्शनं सम्यक्त्वम्, तदाचारो नि:शङ्कितादिरष्टधैव, चारित्राचारः समिति-गुप्तिभेदोऽष्टधा, तपआचारोऽनशनादिभेदो द्वादशधा, वीर्याचारो वीर्यागोपनमेतेष्वेवेति ।।
[सू० ४३३] पंचविधे आयारपकप्पे पन्नत्ते, तंजहा- मासिते उग्घातिते, 20 मासिए अणुग्घातिए, चाउम्मासिए उग्घाइए, चाउम्मासिए अणुग्घातिते, आरोवणा।
आरोवणा पंचविहा पन्नत्ता, तंजहा- पट्टविया, ठविया, कसिणा, अकसिणा, हाडहडा ।
[टी०] आचारस्य प्रथमाङ्गस्य पदविभागसामाचारीलक्षणप्रकृष्टकल्पाभिधायकत्वात् 25 १. सू० २४४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org