SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ५५८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे प्रकल्प आचारप्रकल्प: निशीथाध्ययनम्, स पञ्चविधः पञ्चविधप्रायश्चित्ताभिधायकत्वात्, तथाहि- तत्र केषुचिदुद्देशकेषु लघुमासप्रायश्चित्तापत्तिरुच्यते १, केषुचिच्च गुरुमासापत्ति: २, एवं लघुचतुर्मास ३ गुरुचतुर्मासा ४ऽऽरोपणाश्चेति ५ । तत्र मासेन निष्पन्नं मासिकं तपः, तच्च उद्घातो भागपातो यत्रास्ति तदुद्घातिकं लघ्वित्यर्थः, 5 यत उक्तम् अद्धेण छिन्नसेसं पुव्वद्धेणं तु संजुयं काउं । देज्जाहि लहुयदाणं गुरुदाणं तत्तियं चेव ॥ [ ] त्ति ।। एतद्भावना मासिकतपोऽधिकृत्योपदर्श्यते- मासस्यार्द्धछिन्नस्य शेषं दिनानां पञ्चदशकं तत् मासापेक्षया च पूर्वस्य पञ्चविंशकस्याःन सार्धद्वादशकेन संयुतं कृतं सार्की 10 सप्तविंशतिर्भवतीति । आरोपणा तु चडावण त्ति भणियं होइ, यो हि यथाप्रतिषेवितमालोचयति तस्य प्रतिषेवानिष्पन्नमेव मासलघु-मासगुरुप्रभृतिकं दीयते, यस्तु न तथा तस्य तत्तावद्दीयते एव मायानिष्पन्नं चान्यदारोप्यते इत्यारोपणेति । आरोवण त्ति आरोपणोक्तस्वरूपा, तत्र पट्टविय त्ति बहुष्वारोपितेषु यन्मासगुर्वादिप्रायश्चित्तं प्रस्थापयति वोढुमारभते तदपेक्षयाऽसौ 15 प्रस्थापितेत्युक्ता १, ठविय त्ति यत् प्रायश्चित्तमापन्नस्तत्तस्य स्थापितं कृतम्, न वाहयितुमारब्धमित्यर्थः, आचार्यादिवैयावृत्यकरणार्थम्, तद्धि वहन्न शक्नोति वैयावृत्यं कर्तुम्, वैयावृत्यसमाप्तौ तु तत् करिष्यतीति स्थापितोच्यत इति २, कृत्स्ना पुनर्यत्र झोषो न क्रियते, झोषस्त्वयम्- इह तीर्थे षण्मासान्तमेव तपस्तत: षण्णां मासानामुपरि यान् मासानापन्नोऽपराधी तेषां क्षपणम् अनारोपणं प्रस्थे चतु:सेतिकाऽतिरिक्तधान्यस्येव 20 झाटनमित्यर्थः, झोषाभावेन सा परिपूर्णेति कृत्स्नेत्युच्यत इति भाव: ३, अकृत्स्ना तु यस्यां षण्मासाधिकं झोष्यते, तस्या हि तदतिरिक्तझाटनेनापरिपूर्णत्वादिति ४, हाडहड त्ति यत् लघु-गुरुमासादिकमापन्नस्तत् सद्य एव यस्यां दीयते सा हाडहडोक्तेति ५ । एतत्स्वरूपं च विशेषतो निशीथविंशतितमोद्देशकादवगन्तव्यमिति ।। [सू० ४३४] जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं सीयाते महानदीते १. स च पंच पा० जे२ ॥ २. सू० २०३ टीका ॥ ३. छिन्नशेषं जे१ खं० ॥ ४. "विंशतिक पासं० जे२ ॥ ५. लघुगुरुप्र जे१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy