SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ [सू० ४२८] पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । 10 परियायस्स उ छेओ जत्थोवट्ठावणं वएसुं च । छेओवट्ठावणमिह तमणइयारेतरं दुविहं ॥ सेहस्स निरइयारं तित्थंतरसंकमे व तं होजा । मूलगुणघाइणो साइयारमुभयं च ठियकप्पे ॥ [विशेषाव० १२६८-६९] प्रथम-पश्चिमतीर्थयोरित्यर्थः । तथा परिहरणं परिहारः तपोविशेषः, तेन विशुद्धं 5 परिहारो वा विशेषेण शुद्धो यस्मिंस्तत् परिहारविशुद्धम्, तदेव परिहारविशुद्धिकम्, परिहारेण वा विशुद्धिर्यस्मिंस्तत् परिहारविशुद्धिकम्, तच्च द्विधा- निर्विशमानकं निर्विष्टकायिकं च, तत्र निर्विशमानकानां तदासेवकानां यत्तन्निर्विशमानकम्, यत्तु निर्विष्टकायिकानामासेवितविवक्षितचारित्रकायानां तन्निर्विष्टकायिकमिति, इहापि गाथे परिहारेण विसुद्धं सुद्धो य तवो जहिं विसेसेणं । तं परिहारविसुद्धं परिहारविसुद्धियं नाम ॥ तं दुविकप्पं निव्विस्समाणनिव्विट्ठकाइयवसेण । परिहारियाणुपरिहारियाण कप्पट्टियस्स वि य ॥ [विशेषाव० १२७०-७१] त्ति । इह च नवको गणो भवति, तत्र चत्वार: परिहारिका अपरे तु तद्वैयावृत्यकराश्चत्वार एवानुपरिहारिका:, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषां च 15 निर्विशमानकानामयं परिहार:- ग्रीष्मे जघन्यादीनि चतुर्थ-षष्ठा-ऽष्टमादीनि, शिशिरे षष्ठा-ऽष्टम-दशमानि, वर्षास्वष्टम-दशम-द्वादशानि, पारणके चायामम्, इतरेषां सर्वेषामायाममेव, एवमेते चत्वारः षण्मासान्, पुनरन्ये चत्वार: षडेव, पुनर्वाचनाचार्य: षडिति सर्व एवायमष्टादशमासिक: कल्प इति । तथा सूक्ष्मा: लोभकिट्टिकारूपा: सम्पराया: कषाया यत्र तत् सूक्ष्मसम्परायम्, 20 तदपि द्विधा- विशुद्ध्यमानकं सक्लिश्यमानकं च, तत्राद्यं क्षपकोपशमश्रेणिद्वयं समारोहतः, सक्लिश्यमानकं तूपशमश्रेणित: प्रच्यवमानस्येति, अत्रोक्तम् कोधाइ संपराओ तेण जओ संपरीइ संसारं । तं सुहुमसंपरायं सुहुमो जत्थावसेसो से ॥ १. तीर्थकरयोरित्यर्थः जेसं१ ॥ २. तत्रो पा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy