________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे अहवा समस्स आओ गुणाण लाभो त्ति जो समाओ सो । अहवा समाणमाओ णेओ सामाइयं नाम ॥ [विशेषाव० ३४८०] त्ति,
अथवा साम्नि मैत्र्यां साम्ना वा अयस्तस्य वा आय: सामाय:, स एव सामायिकम्, अभ्यधायि च5 अहवा सामं मेत्ती तत्थ अओ तेण व त्ति सामाओ।
अहवा सामस्साओ लाभो पामाइयं नाम ॥ [विशेषाव० ३४८१] त्ति,
सावद्ययोगविरतिरूपं सर्वमपि चारित्रमविशेषतः सामायिकमेव, छेदादिविशेषैस्तु विशेष्यमाणमर्थत: शब्दतश्च नानात्वं भजते, तत्र प्रथमं विशेषणाभावात् सामान्यशब्द
एवावतिष्ठते सामायिकमिति, तच्च द्विधा- इत्वरकालिकं यावजीविकं च, तत्रेत्वरकालिकं 10 सर्वेषु प्रथम-पश्चिमतीर्थकरतीर्थेष्वनारोपितव्रतस्य यावज्जीविकं तु मध्यमविदेहतीर्थकरतीर्थेषु भवति, तेषूपस्थापनाऽभावादिति, सामायिकं च तत् संयमश्चेत्येवं सर्वत्र वाक्यं कार्यमिति, भवन्ति चात्र गाथा:
सव्वमिणं सामाइयं छेदादिविसेसओ पुण विभिन्नं ।
अविसेसियमादिमयं ठियमिह सामन्नसन्नाए ॥ 15 सावज्जजोगविरइ त्ति तत्थ सामाइयं दुहा तं च ।
इत्तरमावकहं ति य पढमं पढमंतिमजिणाणं ॥ तित्थेसु अणारोवियवयस्स सेहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु विदेहयाणं च ॥ [विशेषाव० १२६२-६४] त्ति,
तथा छेदश्च पूर्वपर्यायस्योपस्थापनं च व्रतेषु यत्र तच्छेदोपस्थापनम्, तदेव 20 छे दोपस्थापनिकम्, ते वा विद्येते यत्र तच्छे दोपस्थापनिकम्, अथवा
पूर्वपर्यायच्छेदेनोपस्थाप्यते आरोप्यते यन्महाव्रतलक्षणं चारित्रं तच्छेदोपस्थापनीयम्, तदपि द्विधा- अनतिचारं सातिचारं च, तत्रानतिचारं यदित्वरसामायिकस्य शिक्षकस्यारोप्यते पार्श्वनाथसाधोर्वा पञ्चयामधर्मप्रतिपत्तौ, सातिचारं तु यन्मूलप्रायश्चित्तप्राप्तस्येति, इहापि गाथे१. समाय: जे१ खं० ॥ २. नामं ति जे१ ॥ ३. विशि जेमू१ विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org