________________
10
५५२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे मार्गीकरोतीति, न चैतत् साधु, ज्ञानादिगुणसमुदायात्मकत्वात् तस्य, तेन च मार्गस्यैव मार्गीकरणादिति, तथा विपक्वं सुपरिनिष्ठितं प्रकर्षपर्यन्तमुपगतमित्यर्थः, तपश्च ब्रह्मचर्य च भवान्तरे येषां विपक्वं वा उदयागतं तपोब्रह्मचर्यं तद्धेतुकं देवायुष्कादि कर्म येषां
ते तथा, तेषामवर्णं वदन् न सन्त्येव देवा: कदाचनाप्यनुपलभ्यमानत्वात् किं वा 5 तैर्विटैरिव कामासक्तमनोभिरविरतैस्तथा निर्निमेषैरचेष्टैश्च म्रियमाणैरिव प्रवचनकार्यानुपयोगिभिश्चेत्यादिकम् ?, इहोत्तरम्- सन्ति देवा: तत्कृतानुग्रहोपघातादिदर्शनात्, कामासक्तता च मोहसातकर्मोदयादित्यादि, अभिहितं च
एत्थ पसिद्धी मोहणीयसायवेयणियकम्मउदयाओ । कामपवत्ता विरई कम्मोदयओ चिय न तेसिं ॥ अणिमिस देवसहावा निच्चेट्ठाऽणुत्तरा उ कयकिच्चा । कालणुभावा तित्थुन्नई पि अन्नत्थ कुव्वंति ॥ [ ] त्ति । तथा अर्हतां वर्णवादो यथाजियरागदोसमोहा सव्वन्नू तियसनाहकयपूया । अच्वंतसच्चवयणा सिवगइगमणा जयंति जिणा ॥ [ ] इति । अर्हत्प्रणीतधर्मवर्णो यथावत्थुपयासणसूरो अइसयरयणाण सायरो जयइ । सव्वजयजीवबंधुरबंधू दुविहो वि जिणधम्मो ॥ [ आचार्यवर्णवादो यथातेसि नमो तेसि नमो भावेण पुणो वि तेसि चेव नमो । अणुवकयपरहियरया जे नाणं देंति भव्वाणं ॥ [पञ्चव० १६००] चतुर्वर्णश्रमणसङ्घवर्णो यथाएयम्मि पूइयम्मी नत्थि तयं जं न पूइयं होइ । भुवणे वि पूयणिज्जो न गुणी संघाओ जं अन्नो ॥ [ ]
देववर्णवादो यथा25 देवाण अहो सीलं विसयविसमोहिया वि जिणभवणे । अच्छरसाहिं पि समं हासाई जेण न करेंति ॥ [
] इति । १. रतैर्निनिमेषै जे१ ॥ २. यंमि पा० जे२ ॥
15
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org