________________
[सू० ४२६]
पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः ।
५५१
अहवा वि य विहिगहियं विहिभुत्तं तं गुरूहऽणुन्नायं । सेसा नाणुन्नाया गहणे दिने व निजुहणा ॥ [ ] इति । उद्गमादिभिरेव भक्तादीनां कल्प्यता: विशुद्धय इति । [सू० ४२६] पंचहिं ठाणेहिं जीवा दुल्लभबोधियत्ताए कम्मं पगरेंति, तंजहाअरहंताणं अवन्नं वदमाणे, अरहंतपन्नत्तस्स धम्मस्स अवनं वदमाणे, 5 आयरियउवज्झायाणं अवनं वदमाणे, चाउवण्णस्स संघस्स अवनं वयमाणे विवक्कतवबंभचेराणं देवाणं अवनं वदमाणे ।
पंचहिं ठाणेहिं जीवा सुलभबोधियत्ताए कम्मं पगरेंति, तंजहा- अरहंताणं वन्नं वदमाणे जाव विवक्कतवबंभचेराणं देवाणं वनं वदमाणे २॥
[टी०] उपघात-विशुद्धिवृत्तयश्च जीवा निर्द्धर्म-धार्मिकत्वाभ्यां बोधेरलाभ- 10 लाभस्थानेषु वर्तन्त इति तत्प्रतिपादनाय सूत्रद्वयम्- पंचहीत्यादि सुगमम्, नवरं दुर्लभा बोधि: जिनधर्मो यस्य स तथा, तद्भावस्तत्ता, तया दुर्लभबोधिकतया तस्यै वा कर्म मोहनीयादि प्रकुर्वन्ति बध्नन्ति, अर्हतामवर्णम् अश्लाघां वदन्, यथानत्थी अरहंतत्ती जाणं वा कीस भुंजए भोए ?। पाहुडियं तुवजीवइ समवसरणादिरूपाम् एमाइ जिणाण उ अवन्नो ॥ [ ] 15 न च ते नाभूवन तत्प्रणीतप्रवचनोपलब्धेः, नापि भोगानुभवनादिर्दोषः, अवश्यवेद्यसातस्य तीर्थकरनामादिकर्मणश्च निर्जरणोपायत्वात् तस्य, तथा वीतरागत्वेन समवसरणादिषु प्रतिबन्धाभावादिति । तथा अर्हत्प्रज्ञप्तस्य धर्मस्य श्रुत-चारित्ररूपस्य प्राकृतभाषानिबद्धमेतत्, तथा किं चारित्रेण ? दानमेव श्रेय इत्यादिकमवण वदन्, उत्तरं चात्र प्राकृतभाषात्वं श्रुतस्य न दुष्टं बालादीनां सुखाध्येयत्वेनोपकारित्वात्, तथा चारित्रमेव 20 श्रेयो निर्वाणस्यानन्तरहेतुत्वादिति । आचार्योपाध्यायानामवर्णं वदन् यथा बालोऽयमित्यादि, न च बालत्वादिर्दोषो बुद्ध्यादिभिर्वृद्धत्वादिति । तथा चत्वारो वर्णाः प्रकाराः श्रमणादयो यस्मिन् स तथा, स एव स्वार्थिकाण्विधानाच्चातुर्वर्णस्तस्य सङ्घस्यावर्णं वदन्, यथा कोऽयं सङ्घो य: समवायबलेन पशुसङ्घ इवामार्गमपि
१. प्रवर्तन्ते खं० पा० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org