SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [टी०] संयताधिकारादेवापरं सूत्रद्वयं पंचमासिएत्यादि व्यक्तम्, नवरम् उपघात: अशुद्धता, उद्गमोपघातः उद्गमदोषैराधाकर्मादिभिः षोडशप्रकारैर्भक्त- पानो-पकरणाऽऽलयानामशुद्धता, एवं सर्वत्र, नवरम् उत्पादनया उत्पादनादोषैः षोडशभिः धात्र्यादिभिः, एषणया तद्दोषैर्दशभिः शङ्कितादिभिरिति, परिकर्म्म वस्त्रपात्रादेः छेदन - सीवनादि, तेन 5 तस्योपघातः अकल्प्यता, तत्र वस्त्रस्य परिकर्म्मोपघाता यथा ५५० तिहपरि फालियाणं वत्थं जो फालियं तु संसीवे । पंचण्हं एगतरं ऊर्णिकाद्यन्यतरत् सो पावड़ आणमाईणि ।। [ निशीथभा० ७८७ ] । तथा पात्रस्यअवलक्खणेगबंधे दुगतिगअइरेगबंधणं वा वि । जो पायं परियइ परिभुङ्क्ते परं दिवड्ढाओ मासाओ || [ निशीथभा० ७५०] 10 स आज्ञादीनाप्नोतीति । तथा वसते: 25 दूमिय धूमिय वासिय उज्जोइय बलिकडा अवत्ताय । सित्ता संमट्ठा वि य विसोहिकोडिं गया वसही ॥ [ निशीथभा० २०४८ ] इति दूमिता धवलिता, बलिकृता कूरादिना, अव्यक्ता छगणादिना लिप्ता, संमृष्टा सम्मार्जितेत्यर्थः। तथा परिहरणा आसेवा तयोपध्यादेरकल्प्यता, तत्रोपधेर्यथा एकाकिन 15 हिण्डकसाधुना यदासेवितमुपकरणं तदुपहतं भवतीति समयव्यवस्था, जग्गण अप्पडिबज्झण जइ वि चिरेणं न उवहम्मे [ ] इति वचनाद्, अस्य चायमर्थ:- एकाकी गच्छभ्रष्टो यदि जागर्त्ति दुग्धादिषु च न प्रतिबध्यते तदा यद्यप्यसौ गच्छे चिरेणागच्छति तथाप्युपधिर्नोपहन्यते अन्यथा तूपहन्यत इति । वसतेरपि मास-चतुर्मासयोरुपरि कालातिक्रान्तेति तथा मासद्वयं चतुर्मासद्वयं चावर्जयित्वा पुनस्तत्रैव वसतामुपस्थानेति 20 च तद्दोषाभिधानात् उक्तं च उउवासा समतीता कालातीता उ सा भवे सेज्जा । सा चेव उवट्ठाणा दुगुणा दुगुणं अवजित्ता ॥ [ बृहत्कल्प ० ५९५ ] इति तथा भक्तस्यापि पारिष्ठापनिकाकारं प्रत्यकल्प्यता, तदुक्तम् विहिगहियं विहिभुत्तं अइरेगं भत्तपाण भोत्तव्वं । विहिगहिए विहिभुत्ते एत्थ य चउरो भवे भंगा | [ ओघनि० ५९२] १. बृहत्कल्पभाष्ये ५८४, पञ्चवस्तु० ७०९ ॥ २. न च प्रति जे१ खं० ॥ ३. वसतिरपि पासं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy