________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
व्यवहारः, व्यवहारो मुमुक्षुप्रवृत्ति - निवृत्तिरूप:, इह तु तन्निबन्धनत्वात् ज्ञानविशेषोऽपि व्यवहार:, तत्र आगम्यन्ते परिच्छिद्यन्ते अर्था अनेनेत्यागमः केवल- मनःपर्यायाऽवधि-पूर्वचतुर्द्दशक-दशक - नवकरूपः १, तथा शेषं श्रुतम् आचारप्रकल्पादि श्रुतम्, नवादिपूर्वाणां श्रुतत्वेऽप्यतीन्द्रियार्थज्ञानहेतुत्वेन सातिशयत्वादागमव्यपदेशः केवलवदिति 5 २, यदगीतार्थस्य पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायातिचारालोचनमितरस्यापि तथैव शुद्धिदानं साऽऽज्ञा ३, गीतार्थसंविग्न द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धि: कृता तामवधार्य यदन्यस्तत्रैव तथैव तामेव प्रयुङ्क्ते सा धारणा, वैयावृत्यकरादेर्वा गच्छोपग्रहकारिणोऽशेषानुचितस्योचितप्रायश्चित्तपदानां प्रदर्शितानां धरणं धारणेति ४, तथा द्रव्य-क्षेत्र-काल-भाव - पुरुषप्रतिषेवानुवृत्त्या संहनन - धृत्यादिपरिहाणिमपेक्ष्य यत् 10 प्रायश्चित्तदानं यो वा यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारः प्रवर्त्तितो बहुभिरन्यैश्चानुवर्त्तितस्तज्जीतमिति, अत्र गाथा:
15
20
25
५४६
आगमसुयववहारो सुणह जहा धीरपुरिसपन्नत्तो ।
पच्चक्खो य परोक्खो सो वि अ दुविहो मुणेयव्वो ॥ पच्चक्खो वि य दुविहो इंदियजो चेव नो य इंदियओ । इंदिपच्चक्खो वय पंचसु विसएसु नेयव्वो ॥ नोइंदियपच्चक्खो ववहारो सो समासओ तिविहो । ओह-मपजवे या केवलनाणे य पच्चक्खो ॥ [ व्यव० भा० ४०२९-३१] पच्चक्खागमसरिसो होइ परोक्खो वि आगमो जस्स ।
चंदही व उसो विहु आगमववहारवं होइ ॥ [ व्यव० भा० ४०३५ ] पारोक्खं ववहारं आगमओ सुयहरा ववहरंति ।
चोदस-दसव्वधरा नवपुव्विग गंधहत्थी य ॥ [ व्यव० भा० ४०३७] जहमोल्लं रयणं तं जाणइ रयणवाणिओ निउणं ।
३
इय जाणड़ पच्चक्खी जो सुज्झइ जेण दिनेणं ॥ [ व्यव० भा० ४०४३] १।
कप्परस य निज्जुत्तिं ववहारस्सेव परमनिउणस्स
जो अत्थओ वियाणइ सो ववहारी अणुन्नाओ ||
१. मुणह खं० ॥ २. केवलि जे१,२ ॥ ३. 'थोवं तु महल्लस्स वि कासति अप्पस्स वि बहुं तु ।' इति व्यवहारभाष्ये उत्तरार्धम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org