SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ [सू० ४२०-४२१] पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः । कायादिव्यापारा: ३, समुदानक्रिया कर्मोपादानम् ४, ईरियावहिया योगप्रत्ययो बन्ध: ५ । इदं च प्रेमादिक्रियापञ्चकं सामान्यपदे, चतुर्विंशतिदण्डके तु मनुष्यपद एव सम्भवति, ईर्यापथक्रियाया उपशान्तमोहादित्रयस्यैव भावादित्याह एवमित्यादि । इहैकेन्द्रियादीनामविशेषेण क्रियोक्ता, सा च पूर्वभवापेक्षया सर्वापि सम्भवतीति भावनीयम्, द्विस्थानके द्वित्वेन क्रियाप्रकरणमुक्तमिह तु पञ्चकत्वेन नारकादिचतुर्विंशतिदण्डकाश्रयेण 5 चेति विशेष:, क्रियाणां च विस्तरव्याख्यानं द्विस्थानकप्रथमोद्देशकाद् वाच्यमिति । [सू० ४२०] पंचविधा परिन्ना पन्नत्ता, तंजहा- उवहिपरिन्ना, उवस्सयपरिन्ना, कसायपरिन्ना, जोगपरिन्ना, भत्तपाणपरिना । [टी०] अनन्तरं कर्मणो बन्धनिबन्धनभूता: क्रिया उक्ताः, अधुना तस्यैव निर्जरोपायभूतां परिज्ञामाह-पंचविहेत्यादि सुगमम्, नवरं परिज्ञानं परिज्ञा वस्तुस्वरूपस्य 10 ज्ञानं तत्पूर्वकं प्रत्याख्यानं च, इयं च द्रव्यतो भावतश्च, तत्र द्रव्यतोऽनुपयुक्तस्य भावतस्तूपयुक्तस्येति, आह च– भावपरिन्ना जाणण पच्चक्खाणं च भावेणं [आचाराङ्गनि० ३७] ति, तत्रोपधी रजोहरणादिः, तस्यातिरिक्तस्याशुद्धस्य सर्वस्य वा परिज्ञा उपधिपरिज्ञा, एवं शेषपदान्यपि, नवरमुपाश्रीयते सेव्यते संयमात्मपालनायेत्युपाश्रयः । [सू० ४२१] पंचविधे ववहारे पन्नत्ते, तंजहा- आगमे, सुते, आणा, 15 धारणा, जीते। जहा से तत्थ आगमे सिता आगमेणं ववहारं पट्टवेजा १, णो से तत्थ आगमे सिया, जहा से तत्थ सुते सिता सुतेणं ववहारं पट्ठवेज्जा २, णो से तत्थ सुते सिता एवं जाव जधा से तत्थ जीते सिता जीतेणं. ववहारं पट्टवेज्जा ५, इच्चेतेहिं पंचहिं ववहारं पट्टवेज्जा, तंजहा- आगमेणं जाव जीतेणं। जधा जधा से तत्थ आगमे जाव जीते तहा तहा ववहारं 20 पट्टवेज्जा। से किमाह भंते ? आगमबलिया समणा निग्गंथा। इच्चेतं पंचविधं ववहारं जता जता जहिं जहिं तता तता तहिं तहिं अणिस्सितोवस्सितं सम्म ववहरमाणे समणे णिग्गंथे आणाते आराधते भवति । [टी०] परिज्ञा च व्यवहारवतां भवतीति व्यवहारं प्ररूपयन्नाह-पंचेत्यादि, व्यवहरणं १. इयं च जे१ खं० मध्ये नास्ति ॥ २. हरणं व्यवहारो मुमु जे१ खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy