________________
आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
इति सागारिकपिण्डः, तं भुञ्जान:, तद्भोजने चामी दोषा:तित्थकरप्पडिकुट्ठो अन्नायं अज्ञातोञ्छो न भवतीत्यर्थः उग्गमोऽवि य न सुज्झे परिचयात् । अविमुत्ति अलाघवया दुल्लहसेज्जा य वोच्छेदो ॥ पडिबंधनिराकरणं केई अन्ने उ गिही अगहणस्स ।
तस्साउट्टण शय्यातरावर्जनमित्यर्थः आणं इत्थऽवरे बेंति भावत्थं ॥ [ पञ्चा० १७।१८-१९ ]ति । 5 तथा राज्ञः पिण्डो राजपिण्डः, तं भुञ्जानः, राजा चेह चक्रवर्त्यादिर्यत आहजो मुद्धा अभिसितो पंचहिं सहिओ य भुंजए रज्जं ।
तस्स उ पिंडो वज्जो तव्विवरीयम्मि भयणा उ ॥ [ निशीथभा० २४९७] पिण्डस्वरूपं चअसणाईया चउरो वत्थे पाए य कंबले चेव ।
पाउंछणए य तहा अट्ठविहो रायपिंडो तु ॥ [ निशीथभा० २५००]
10 दोषा आज्ञादय:, ईश्वरादिप्रवेशादौ व्याघात: अमङ्गलधिया प्रेरणा लोभ एषणाव्याघातश्चौरादिशङ्का चेत्यादय इति ।।
नाइक्कमइ त्ति आज्ञामाचारं वेति । नगरं स्यात् भवेत् सर्वतः सर्वासु दिक्षु समन्ताद् विदिक्षु, अथवा सर्वतः, किमुक्तं भवति ? समन्तादिति, गुप्तं प्राकारवेष्टितत्वात् गुप्तद्वारं द्वाराणां स्थगितत्वात्, श्राम्यन्ति तपस्यन्तीति श्रमणा: मावधीरिति प्रवृत्तिर्येषां 15 ते माहना: उत्तरगुण - मूलगुणवन्तः संयता इत्यर्थः, अथवा श्रमणा: शाक्यादयः माहना ब्राह्मणा नो संचाएंति न शक्नुवन्ति, भक्ताय पानाय वा निष्क्रमितुं वा निर्गन्तुं नगरात् तद्बहिर्भिक्षाकुलेषु भिक्षित्वा तथैव प्रवेष्टुं वेति, ततस्तेषां श्रमणादीनां प्रयोजने विज्ञापनाय राज्ञोऽन्तः पुरस्थस्य प्रमाणभूतराज्ञ्या वा राजान्त: : पुरमनुप्रविशेत्, इह च शाक्यादीनां प्रयोजने यद् राज्ञो विज्ञापनं तदपवादापवादरूपम्, 20 असंयताविरतत्वात्तेषाम्, एतच्च किञ्चिदात्यन्तिकं सङ्घादिप्रयोजनमवलम्बमानानां भवतीति समवसेयमित्येकम् । तथा कृतप्रयोजनैः प्रतिह्रियते प्रतिनीयते यत्तत् प्रतिहारप्रयोजनत्वात् प्रातिहारिकम्, पीठं पट्टादिकं फलकम् अवष्टम्भफलकं शय्या सर्वाङ्गीणा फलकादिरूपा संस्तारको लघुतरोऽथवा शय्या शयनं तदर्थः संस्तारकः शय्यासंस्तारकः, द्वन्द्वैकवद्भावात् पीठ-फलक- शय्यासंस्तारकं पच्चप्पिणमाणे त्ति आर्षत्वात् 25 प्रत्यर्पयितुं तत् प्रविशेत् यस्माद् यदानीतं तत्तत्रैव निक्षेप्तव्यमिति कृत्वेति द्वितीयम् । १. निशीथभा० ११५९, बृहत्कल्पभा० ३५४०, ६३७८ ॥
५३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org