________________
[सू० ४१५] पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः ।
५३५ तद्रक्षणार्थम्, तथा आयरियउवज्झाये व त्ति समाहारद्वन्द्वत्वादाचार्योपाध्यायं वा से तस्य भिक्षो: वीसुंभेज त्ति विष्वक् शरीरात् पृथग् भवेत् जायेत, म्रियेतेत्यर्थः, ततस्तत्र गच्छे अन्यस्याचार्यादेरभावाद् गणान्तराश्रयणार्थम्, अथवा वीसुंभेज त्ति विश्रम्भेत तस्य साधोराचार्यादिर्विश्रब्धो भवेत्, ततोऽत्यन्तरहस्यकार्यकरणायेति, तथा आचार्योपाध्यायानां वा बहिस्ताद् वर्षाक्षेत्रस्य वर्तमानानां वैयावृत्यकरणतायै 5 प्रेषितस्याचार्यादिना द्रोतुं कल्पत इति, उक्तं चअसिवे ओमोयरिए रायदुढे भए व गेलन्ने । नाणाइतिगस्सट्ठा ३ वीसुंभण ४ पेसणेणं ५ च ॥ [निशीथभा० ३१२९, बृहत्कल्प० २७४१] इति।
अणुघाइय त्ति न विद्यते उद्घातो लघूकरणलक्षणो यस्य तपोविशेस्य तदनुद्घातं यथाश्रुतदानमित्यर्थः, तद्येषां प्रतिषेवाविशेषतोऽस्ति तेऽनुद्घातिका: । हस्तकर्म 10 समयप्रसिद्धम्, तत् कुर्वाणः । मैथुनम् अब्रह्म अतिक्रमादिना सेवमानः । तथा भुज्यत इति भोजनम्, रात्रौ भोजनं रात्रिभोजनम्, तच्च द्रव्यतोऽशनादि, क्षेत्रत: समयक्षेत्रे, कालतो दिवा गृहीतं दिवा भुक्तं दिवा गृहीतं रात्रौ भुक्तं रात्रौ गृहीतं दिवा भुक्तं रात्रौ गृहीतं रात्रौ भुक्तमित्येवं चतुर्भङ्गरूपम्, भावतो राग-द्वेषाभ्याम्, तद् भुञ्जानोऽश्नन्नित्यर्थः, अत्र दोषा:संतिमे सुहुमा पाणा [दशवै० ६।२४-२६] इत्यादिश्लोकत्रयम्, तथाजइ वि हु फासुगदव्वं कुंथू पणगा तहा वि दुप्पस्सा । पच्चक्खं नाणी वि हु राईभत्तं परिहरंति ॥ जइ वि य पिवीलिगाइ दीसंति पईवजोइउज्जोए । तह वि खलु अणाइन्नं मूलवयविराहणा जेणं ॥ [बृहत्कल्प० २८६३-६४] 20
तथा अगारं गृहम्, सह तेन वर्त्तत इति सागार:, स एव सागारिकः शय्यातरः, तस्य पिण्ड: आहारोपधिरूप:, अन्यस्त्वसौ न भवति, उक्तं च
तण-छार-डगल-मल्लग-सेजा-संथार-पीढ-लेवाई।
सेज्जायरपिंडो सो न होइ सेहो य सोवहिओ ॥ [निशीथभा० ११५४, बृहत्कल्प० ३५३५] १. ज्झाए व त्ति खं० । ज्झाए त्ति पा० जे२ ॥ २. “संतिमे सुहुमा पाणा तसा अदुव थावरा । जाई
राओ अपासंतो कहमेसणियं चरे ॥२४॥ उदउल्लं बीय संसत्तं पाणा निवडिया महिं । दिआ ताई विवज्जिज्जा राओ तत्थ कह चरे ॥२५|| एयं च दोसं दळूणं नायपुत्तेण भासियं । सव्वाहारं न भुजंति निग्गंथा राइभोयणं ॥२६॥” इति दशवैकालिकसूत्रे षष्ठेऽध्ययने ॥ ३. निशीथभाष्ये ३४११-१२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org