________________
५३४
10
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ग्रामानुग्रामं तेन, ग्रामपरम्परयेत्यर्थः, अथवा एकग्रामाल्लघु-पश्चाद्भावाभ्यां ग्रामोऽणुग्रामः, गामो य अणुगामो य गामाणुगाम, तत्र दूइजित्तए त्ति द्रोतुं विहर्तुमित्युत्सर्गः, अपवादमाह- पंचेत्यादि तथैव, नवरमिह प्रव्यथेत
ग्रामाच्चालयेन्निष्काशयेत् कश्चित्, उदकौघे वा आगच्छति ततो नश्येदिति, उक्तं च5 आबाहे दुब्भिक्खे भए दओघंसि वा महंतंसि ।।
परिभवणतालणं वा जया परो वा करेजासि ॥ [बृहत्कल्पभा० २७३९] इति । तथा वर्षासु वर्षाकाले वर्षो वृष्टिर्वर्षावर्षो वर्षासु वा आवास: अवस्थानं वर्षावासस्तम्, स च जघन्यत: आ कार्तिक्या: दिनसप्ततिप्रमाणः, मध्यमवृत्त्या चतुर्मासप्रमाण: उत्कृष्टत: षण्मासमानः, तदुक्तम्
इअ सत्तरी जहन्ना असिई नउई विसुत्तरसयं च । जइ वासे मग्गसिरे दस राया तिन्नि उक्कोसा ॥ मासमित्यर्थः, काऊण मासकप्पं तत्थेव ठियाण तीते मग्गसिरे । सालंबणाण छम्मासिओ उ जेटुग्गहो होइ ॥ [बृहत्कल्प० ४२८५-८६] इति ।
पज्जोसवियाणं ति परीति सामस्त्येनोषितानां पर्युषणाकल्पेन नियमवद्वस्तुमा15 रब्धानामित्यर्थः, पर्युषणाकल्पश्च न्यूनोदरताकरणं विकृतिनवकपरित्याग: पीठ-फलकादि
संस्तारकादानमुच्चारादिमात्रकसंग्रहणं लोचकरणं शैक्षाप्रव्राजनं प्रारगृहीतानां भस्मडगलकादीनां परित्यजनमितरेषां ग्रहणं द्विगुणवर्षोपग्रहोपकरणधरणमभिनवोपकरणाग्रहणं सक्रोशयोजनात् परतो गमनवर्जनमित्यादिकः, उक्तं च
दव्वट्ठवणाऽऽहारे विगई संथार मत्तए लोए । 20 सच्चित्ते अच्चित्ते वोसिरणं गहणधरणाइ ॥ [निशीथभा० ३१६६] त्ति ।
दव्वट्ठवण त्ति निशीथे द्वारपरामर्श इति । ज्ञानमेवार्थो यस्य स ज्ञानार्थः, तद्भावस्तत्ता, तया ज्ञानार्थतया ज्ञानार्थित्वेन, तत्रापूर्व: श्रुतस्कन्धोऽन्यस्याचार्यादेरस्ति स च भक्तं प्रत्याख्यातुकामस्ततो यद्यसौ तत्सकाशान्न
गृह्यते ततोऽसौ व्यवच्छिद्यते अतस्तद्ग्रहणार्थं ग्रामानुग्रामं द्रोतुं कल्पते, एवं दर्शनार्थतया 25 दर्शनप्रभावकशास्त्रार्थित्वेन, चारित्रार्थतया तु तस्य क्षेत्रस्यानेषणा-स्त्र्यादिदोषदुष्टतया
१. तीत जेसं१, जे२ ॥ २. दशाश्रुतस्कन्धनिर्युक्तौ ६९-७० । निशीथभाष्ये ३१५४, ३१५६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org