________________
5
[सू० ४१५] पञ्चममध्ययनं पञ्चस्थानकम् । द्वितीय उद्देशकः ।।
५३३ वा प्रवाहयेत् कश्चित् प्रत्यनीक: तत्रैव गङ्गादौ प्रक्षिपेदित्यर्थः ३, दओघंसि त्ति उदकौघे वा गङ्गादीनामुन्मार्गगामित्वेनाऽऽगच्छति सति तेन प्लाव्यमानानामित्यर्थः, महता वा आटोपेनेति शेष: ४, अणारिएसु त्ति विभक्तिव्यत्ययादनार्यैः म्लेच्छादिभिर्जीवितचारित्रापहारिभिरभिभूतानामिति शेषः, म्लेच्छेषु वा आगच्छत्स्विति शेषः, एतानि पुष्टालम्बनानीति तत्तरणेऽपि न दोष इति, उक्तं च
सालंबणो पडतो वि अप्पयं दुग्गमे वि धारेइ । इय सालंबणसेवी धारेइ जई असढभावं ॥ आलंबणहीणो पुण निवडइ खलिओ अहे दुरुत्तारे । इय निक्कारणसेवी पडइ भवोहे अगाहम्मि ॥ [आव० नि० ११८६-८७] इति । तथा पढमपाउसंसि त्ति इह आषाढ-श्रावणौ प्रावृट्, आषाढस्तु प्रथमप्रावृट, 10 ऋतूनां वा प्रथमेति प्रथमप्रावृट्, अथवा चतुर्मासप्रमाणो वर्षाकाल: प्रावृडिति विवक्षित:, तत्र सप्ततिदिनप्रमाणे प्रावृषो द्वितीये भागे तावन्न कल्पत एव गन्तुम्, प्रथमभागेऽपि पञ्चाशद्दिनप्रमाणे विंशतिदिनप्रमाणे वा न कल्पते जीवव्याकुलभूतलत्वाद्, उक्तं च
एत्थ य अणभिग्गहियं वीसइराइं सवीसई मासं । तेण परमभिग्गहियं गिहिनायं कत्तियं जाव ॥ [बृहत्कल्पं० ४२८२] त्ति । 15 अनभिगृहीतम् अनिश्चितमशिवादिभिर्निर्गमभावाद्, आह चअसिवादिकारणेहिं अहवा वासं न सुट्ठ आरद्धं ।। अभिवडियम्मि वीसा इयरेसु सवीसई मासो ॥ [बृहत्कल्प० ४२८३] इति । यत्र संवत्सरे अधिकमासको भवति तत्र आषाढ्या विंशतिदिनानि यावदनभिग्रहिक आवासोऽन्यत्र सविंशतिरात्रं मासं पञ्चाशतं दिनानीति, अत्र चैते दोषा: 20 छक्कायविराहणया आवडणं विसमखाणुकंटेसु । बुज्झण अभिहण रुक्खोल्सावए तेण उवचरए ॥ अक्खुन्नेसु पहेसुं पुढवी उदगं च होइ दुविहं तु । उल्लपयावण अगणी इहरा पणओ हरियकुंथू ॥ [बृहत्कल्प० २७३६-३७] इति । ततस्तत्र प्रावृषि किमत आह- एकस्माद् ग्रामादवधिभूतादुत्तरग्रामाणामनतिक्रमो 25 १. निशीथभाष्येऽपि ३१५१ । दशाश्रुतस्कन्धनिर्युक्तौ ६६ ।। २. निशीथभाष्येऽपि ३१५२ । दशाश्रुतस्कन्धनिर्युक्ती
६७॥ ३. निशीथभा० ३१२५-२६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org