SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ५३२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [टी०] उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्ध:अनन्तरोद्देशके विविधा जीववक्तव्यतोक्ता, इहापि सैवोच्यत इत्येवमभिसम्बन्धस्यास्येदमादिसूत्रम्- नो कप्पईत्यादि । अस्य च पूर्वसूत्रेण सहायमभिसम्बन्ध: पूर्वसूत्रे केवलिनिर्ग्रन्थगतं वस्तूक्तमिह तु छद्मस्थनिर्ग्रन्थगतं तदुच्यत इत्येवमस्यारागर्भसूत्राद् 5 अन्येषां च सम्बद्धानां नो कप्पईत्यादीनां व्याख्या सुकरैव, नवरं नो कप्पइ त्ति न कल्पन्ते न युज्यन्ते, एकवचनस्य बहुवचनार्थत्वात् वत्थगन्धमलङ्कार [दशवै० २।२] मित्यादाविवेति, निर्गता ग्रन्थादिति निर्ग्रन्थाः साधवस्तेषाम्, तथा निर्ग्रन्थीनां साध्वीनाम्, इह प्रायस्तुल्यानुष्ठानत्वमुभयेषामपीतिदर्शनार्थौ वाशब्दौ, इमा इति वक्ष्यमाणनामत: प्रत्यक्षासन्नाः, उद्दिष्टा: सामान्यतोऽभिहिता यथा महानद्य इति, गणिता: 10 यथा पञ्चेति, व्यञ्जिता व्यक्तीकृता: यथा गंगेत्यादि, विशेषणोपादानाद्वा यथा महार्णवा इति, तत्र महार्णव इव या बहूदकत्वात् महार्णवगामिन्यो वा यास्ता वा महार्णवा महानद्यो गुरुनिम्नगा: अन्त: मध्ये मासस्य द्विकृत्वो वा द्वौ वारौ त्रिकृत्वो वा त्रीन् वारान् उत्तरीतुं लङ्घयितुं बाहु-जङ्घादिना सन्तरीतुं साङ्गत्येन नावादिनेत्यर्थः लवयितुमेव, सकृद्वोत्तरीतुम्, अनेकश: सन्तरीतुमिति, अकल्प्यता चात्म-संयमोपघात15 सम्भवेन शबलचारित्रभावाद्, यत आह– मासन्भंतर तिन्नि दगलेवा उ करेमाणे [आव० नि० १२०३] त्ति, उदकलेपो नाभिप्रमाणजलावतरणमिति । इह सूत्रे कल्पभाष्यगाथा इमउ त्ति सुत्तउत्ता १ उद्दिट्ट नईओ २ गणिय पंचेव ३ । गंगादि वंजियाओ ४ बहूदय महन्नवाओ उ ५ ॥ पंचण्हं गहणेणं सेसा वि उ सूइया महासलिला । [बृहत्कल्प० ५६१९-२०] इति । 20 प्रत्यपायाश्चेह ओहार-मगराईया घोरा तत्थ उ सावया । सरीरोवहिमाईया णावातेणा व कत्थइ ॥ [बृहत्कल्प० ५६३३] इति । अपवादमाह- पंचेत्यादि, भये राज-प्रत्यनीकादेः सकाशादुपध्याद्यपहारविषये सति १, दुर्भिक्षे वा भिक्षाऽभावे सति २, पव्वहेज त्ति प्रव्यथते बाधते अन्तभूर्तकारितार्थत्वाद् १. संबद्धस्या जे१ ॥ २. 'मस्माद्गर्भ जे१ । सू० ४१६ ॥ ३-४. निग्र जे१ ।। ५. आवश्यकसूत्रे चतुर्थे प्रतिक्रमणाध्ययने 'एक्कवीसाए सबलेहिं' इति सूत्रस्य व्याख्यायाम् ॥ ६. वाओ या जे१ । वाओ य पा० जे२॥ ७. निशीथभा० ४२११ ।। ८. निशीथभा० ४२२३ ॥ ९. तार्थाद्वा जे१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy