________________
५२९
[सू० ४११] पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः ।
एवमेतेणं अभिलावेणं इमातो गाहातो अणुगंतव्वातोपउमप्पभस्स चित्ता १, मूलो पुण होइ पुप्फदंतस्स २॥ पुव्वा य आसाढा सीतलस्स ३, उत्तर विमलस्स भद्दवता ४॥३४॥ रेवतित अणंतजिणो ५, पूसो धम्मस्स ६, संतिणो भरणी ७। कुंथुस्स कत्तियाओ ८, अरस्स तह रेवतीतो य ९॥३५॥
5 मुणिसुव्वतस्स सवणो १०, आसिणि णमिणो य ११, नेमिणो चित्ता १२॥ पासस्स विसाहाओ १३, पंच य हत्थुत्तरे वीरो १४॥३६॥
समणे भगवं महावीरे पंचहत्थुत्तरे होत्था, तंजहा- हत्थुत्तराहिं चुते चइत्ता गन्भं वक्कंते, हत्थुत्तराहिं गब्भातो गन्भं साहरिते, हत्थुत्तराहिं जाते, हत्थुत्तराहिं मुंडे भवित्ता जाव पव्वइए, हत्थुत्तराहिं अणंते अणुत्तरे जाव केवलवरनाणदंसणे 10 समुप्पन्ने ।
[टी०] केवल्यधिकारात् तीर्थकरसूत्राणि चतुर्दश, कण्ठ्यानि चैतानि, नवरं पद्मप्रभः ऋषभादिषु षष्ठः, पञ्चसु च्यवनादिदिनेषु चित्रा नक्षत्रविशेषो यस्य स पञ्चचित्रः. चित्राभिरिति रूढ्या बहुवचनम्, च्युतः अवतीर्ण: उपरिमोपरिमग्रैवेयकादेकत्रिंशत्सागरोपमस्थितिकात्, च्युत्वा च गभं ति गर्भे कुक्षौ 15 व्युत्क्रान्त: उत्पन्न: कौशाम्ब्यां धराभिधानमहाराजभार्याया: सुसीमानामिकाया: माघमासबहुलषष्ठ्याम्, जातो गर्भनिर्गमेन कार्तिकबहुलद्वादश्याम्, तथा मुण्डो भूत्वा केश-कषायाद्यपेक्षया अगारान्निष्क्रम्याऽनगारितां श्रमणतां प्रव्रजितो गत:, अनगारतया वा प्रव्रजित: कार्तिकशुद्धत्रयोदश्याम्, तथाऽनन्तं पर्यायानन्तत्वात् अनुत्तरं सर्वज्ञानोत्तमत्वात् निर्व्याघातमप्रतिपातित्वात् निरावरणं सर्वथा स्वावरणक्षयात् कट- 20 कुंड्याद्यावरणाभावाद्वा कृत्स्नं सकलपदार्थविषयत्वात् परिपूर्ण स्वावयवापेक्षया अखण्ड पौर्णमासीचन्द्रबिम्बवत्, किमित्याह केवलं ज्ञानान्तरासहायत्वात् संशुद्धत्वाद्वा अत एव वरं प्रधानं केवलवरं ज्ञानं च विशेषावभासं दर्शनं च सामान्यावभासं ज्ञानदर्शनं तच्च तत्तच्चेति केवलवरज्ञानदर्शनं समुत्पन्नं जातं चैत्रशुद्धपञ्चदश्याम्, तथा परिनिर्वृतो निर्वाणं गत: मार्गशीर्षबहुलैकादश्यामादेशान्तरेण फाल्गुनबहुलचतुर्थ्यामिति । एवं चेव 25 १. 'कुट्या जे२ ॥ २. केवलवरं जे१ मध्ये नास्ति ॥ ३. निवृत्तो पा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org