________________
आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
हेतुर्ममानुमानोत्थापक इत्येवं जानातीत्यतोऽहेतुभूतं तं जानन्नहेतुरेवासावुच्यते, एवं दर्शन-बोधा-ऽभिसमागमापेक्षयाऽपि । तदेवमहेतुचतुष्टयं छद्मस्थमाश्रित्य देशनिषेधत आह- अहेतुमिति, धूमादिकं हेतुमहेतुभावेन न जानाति न सर्वथाऽवगच्छति, कथञ्चिदेवावगच्छतीत्यर्थः, नञो देशनिषेधार्थत्वात्, ज्ञातुश्चावध्यादिकेवलित्वेनानु5 मानाव्यवहर्तृत्वादित्येकोऽयमहेतुर्देशप्रतिषेधत उक्तः, एवमहेतुं कृत्वा धूमादिकं न पश्यतीति द्वितीयः, न बुध्यते न श्रद्धत्ते इति तृतीयः, नाभिसमागच्छतीति चतुर्थ:, तथा अहेतुम् अध्यवसानादिहेतुनिरपेक्षं निरुपक्रमतया छद्मस्थमरणम् अननुमानव्यवहर्तृत्वेऽप्यकेवलित्वात् तस्य, अयं च स्वरूपत एव पञ्चमोऽहेतुरुक्तः ५ ।
तथा पञ्च अहेतवः, योऽहेतुना हेत्वभावेन केवलित्वात् जानात्यसावहेतुरेवेत्येवं 10 पश्यतीत्यादयोऽपि, एवं च छद्मस्थमाश्रित्य पदचतुष्टयेनाहेतुचतुष्टयं देशप्रतिषेधत आह, तथा अहेतुना उपक्रमाभावेन छद्मस्थमरणं म्रियत इति पञ्चमोऽहेतुः स्वरूपत एवोक्तः ६ ।
तथा पञ्च अहेतव:, अहेतुं न हेतुभावेन विकल्पितं धूमादिकं जानाति केवलितया योऽनुमानाव्यवहारित्वात् सोऽहेतुरेव, एवं य: पश्यतीत्यादि, तथा अहेतुं निर्हेतुकमनुपक्रमत्वात् केवलिमरणमनुमानाव्यवहारित्वान्प्रियते यात्यसावहेतुः पञ्चमः, 15 एते पञ्चापीह स्वरूपत उक्ता: ७ । एवं तृतीयान्तसूत्रमप्यनुसर्त्तव्यमिति ८ । गमनिकामात्रमेतत्, तत्त्वं तु बहुश्रुता विदन्तीति ।
तथा न सन्त्युत्तराणि प्रधानानि येभ्यस्तान्यनुत्तराणि, यथास्वं सर्वथाऽऽवरणक्षयात्, तत्राऽऽद्ये ज्ञान-दर्शनावरणक्षयाद्, अनन्तरे मोहक्षयात्, तपसश्चारित्रभेदत्वात्, तपश्च केवलिनामनुत्तरं शैलेश्यवस्थायां शुक्लध्यानभेदस्वरूपम्, ध्यानस्याभ्यन्तरतपोभेदत्वात्, 20 वीर्यं तु वीर्यान्तरायक्षयादिति ९ ।
[सू० ४११] पउमप्पभे णमरहा पंचचित्ते होत्था, तंजहा - चित्ताहिं चुते चइत्ता गब्भं वक्कंते, चित्ताहिं जाते, चित्ताहिं मुंडे भवित्ता अगाराओ अणगारितं पव्वइए, चित्ताहिं अनंते अणुत्तरे णिव्वाघाते णिरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने, चित्ताहिं परिणि
।
पुष्पदंते णं अरहा पंचमूले होत्था, मूलेणं चुते चइत्ता गब्भं वक्कते, एवं चेव ।
25
५२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org