SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ [सू० ४१०] पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । ५२७ ___पंच अहेऊ पन्नत्ता, तंजहा-अहेडं जाणति जाव अहेउं केवलिमरणं मरति __ पंच अहेऊ पन्नत्ता, तंजहा- अहेउणा जाणति जाव अहेउणा केवलिमरणं मरति ८ । __ केवलिस्स णं पंच अणुत्तरा पन्नत्ता, तंजहा- अणुत्तरे नाणे, अणुत्तरे दंसणे, 5 अणुत्तरे चरित्ते, अणुत्तरे तवे, अणुत्तरे वीरिते ९। [टी०] छद्मस्थ-केवलिनोरनन्तरं स्वरूपमुक्तमिदानीमपि तयोरेव तदाह- पंच हेऊ इत्यादि सूत्रनवकम्, तत्र भगवतीपञ्चमशतसप्तमोद्देशकचूर्ण्यनुसारेण किमपि लिख्यते, पञ्च हेतवः, इह य: छद्मस्थतयाऽनुमानव्यवहारी अनुमानाङ्गतया हेतुं लिङ्गं धूमादिकं जानाति स हेतुरेवोच्यते १, एवं यः पश्यति २ श्रद्धत्ते ३ प्राप्नोति चेति ४, तदेवं 10 हेतुचतुष्टयं मिथ्यादृष्टिमाश्रित्य कुत्साद्वारेणाह– हेतुं न जानाति न सम्यग् विशेषतो गृह्णाति, नञ: कुत्सार्थत्वादसम्यगवैतीत्यर्थः, एवं न पश्यति सामान्यतः, न बुध्यते न श्रद्धत्ते, बोधे: श्रद्धानपर्यायत्वात्, तथा न समभिगच्छति भवनिस्तरणकारणतया न प्राप्नोति, एवं चायं चतुर्विधो हेतुर्भवतीति, तथा हेतुम् अध्यवसानादिमरणहेतुजन्यत्वेनोपचाराद् अज्ञानमरणं मिथ्यादृष्टित्वेनाऽज्ञातहेतुतद्गम्यभावस्य मरणं तन्मियते 15 करोति, यश्चैवंविध: सोऽपि हेतुरेवेति पञ्चमो हेतुरिति १। तथा पंच हेतवः, तत्र यो हेतुना धूमादिनाऽनुमेयमर्थं जानाति स हेतुरेव, एवं यः पश्यतीत्यादि । तदेवं कुत्साद्वारेण मिथ्यादृष्टिमाश्रित्य हेतुचतुष्टयमाह- हेतुना न जानात्यनुमेयम्, नञः कुत्सार्थत्वादेवासम्यगवगच्छतीत्यर्थः, एवं न पश्यतीत्यादि, तथा हेतुना मरणकारणेन योऽज्ञानमरणं म्रियते स हेतुरेवेति पञ्चमो हेतुरिति २। 20 ___ तथा पञ्च हेतवो यो हि सम्यग्दृष्टितया हेतुं सम्यग् जानाति स हेतुरेवेत्येवमन्येऽपि, नवरं हेतुं हेतुमत् छद्मस्थमरणं सम्यग्दृष्टित्वान्नाज्ञानमरणमनुमातृत्वाच्च न केवलिमरणमिति, एवं तृतीयान्तसूत्रमपि । इह सूत्रद्वयेऽपि हेतव: स्वरूपत उक्ता: ३-४ । तथा पञ्चाहेतवः, य: प्रत्यक्षज्ञानादितया अनुमानानपेक्ष: स धूमादिकं हेतुं नायं १. चूर्णिपाठोऽत्र प्रथमपरिशिष्टे द्रष्टव्यः ॥ २. “अज्झवसाणनिमित्ते आहारे वेयणा पराघाए । फासे आणापाणु सत्तविहं झि(भि)ज्जए आउं ॥७२४।। इति आवश्यकनियुक्तौ ॥ ३. तदेव जे१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy