SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे आक्रोश-वधाभिधानपरीषहद्वयरूपं मन्तव्यम्, उपसर्गविवक्षायां तु मानुष्यकप्राद्वेषिकाद्युपसर्गरूपमिति १, तथा यक्षाविष्टो देवाधिष्ठितोऽयं तेनाक्रोशतीत्यादि द्वितीयम् २, तथा अयं हि परीषहोपसर्गकारी मिथ्यात्वादिकर्म्मवशवर्त्ती ममं च णं ति मम पुनस्तेनैव मानुष्यकेण भवेन जन्मना वेद्यते अनुभूयते यत्तत्तद्भववेदनीयं कर्म्म उदीर्णं 5 भवति अस्ति तेनैष मामाक्रोशतीत्यादि तृतीयम् ३, तथा एष बालिशः पापाभीतत्वात् करोतु नामाक्रोशनादि, मम पुनरसहमानस्य किं मन्ने त्ति मन्ये इति निपातो वितर्कार्थः कज्जइति सम्पद्यते, इह विनिश्चयमाह - एगंतसो त्ति एकान्तेन सर्वथा पापं कर्म असातादि क्रियते संपद्यत इति चतुर्थम् ४, तथा अयं तावत् पापं बध्नाति मम चेदं सहतो निर्जरा क्रियत इति पञ्चमम् ५। इच्चेयेहीत्यादि निगमनमिति । ५२६ 10 छद्मस्थविपर्ययः केवलीति तत्सूत्रम् । तत्र च क्षिप्तचित्तः पुत्रशोकादिना नष्टचित्तः, दृप्तचित्त: पुत्रजन्मादिना दर्पवच्चित्त उन्मत्त एवेति । मां च सहमानं दृष्ट्वा अन्येऽपि सक्ष्यन्ति, उत्तमानुसारित्वात् प्राय इतरेषाम्, यदाह जो उत्तमेहिं मग्गो पहओ सो दुक्करो न सेसाणं । आयरियम्मि जयंते तयणुयरा केण सीएज्जा ? ॥ [ ] इति । 15 इच्चे हीत्याद्यत्रापि निगमनम्, शेषं सुगममिति । [सू० ४१०] पंच हेऊ पन्नत्ता, तंजहा- हेउ न जाणति, हेउं ण पासति, हेउं ण बुज्झति, हेउ णाभिगच्छति, हेउं अन्नाणमरणं मरति १ । पंच हेऊ पन्नत्ता, तंजहा - हेउणा ण जाणति जाव हेउणा अन्नाणमरणं मरति २ । 20 पंच हेऊ पन्नत्ता, तंजहा - हेउं जाणति जाव हेउं छउमत्थमरणं मरति ३ । पंच हेऊ पन्नत्ता, तंजहा - हेउणा जाणति जाव हेउणा छउमत्थमरणं मरति ४ । पंच अहेऊ पन्नत्ता, तंजहा - अहेउं ण याणति जाव अहेउं छउमत्थमरणं मरति ५ । पंच अहेऊ पन्नत्ता, तंजहा - अहेउणा न जाणति जाव अहेउणा छउमत्थ25 मरणं मरति ६ । १. इच्चेएही जे१ विना ॥ २. प्रतिषु पाठाः - इच्चेयेहीत्यत्रापि जे१ । इच्चेहीत्याद्यत्रापि खं० पा० २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy