SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ [सू० ४०९] पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । ५२५ उदिन्ने भवति, तेण मे एस पुरिसे जाव अवहरति वा ४, ममं च णं सम्म सहमाणं खममाणं तितिक्खेमाणं अधियासेमाणं पासेत्ता बहवे अन्ने छउमत्था समणा णिग्गंथा उदिन्ने उदिन्ने परिस्सहोवसग्गे एवं सम्मं सहिस्संति जाव अहियासिस्संति ५ । इच्चेतेहिं पंचहिं ठाणेहिं केवली उदिन्ने परिस्सहोवसग्गे सम्मं सहेजा जाव अहियासेज्जा । 5 [टी०] अनन्तरोदितककुदयोग्यश्चेक्ष्वाक्वादिप्रव्रजित: सरागोऽपि सन् सत्त्वाधिकत्वाद्यानि वस्तून्यालम्ब्य परीषहादीनपगणयति तान्याह- पंचहीत्यादि स्फुटम्, किन्तु छाद्यते येन तच्छद्म ज्ञानावरणादि घातिकर्मचतुष्टयम्, तत्र तिष्ठतीति छद्मस्थः, सकषाय इत्यर्थः, उदीर्णान् उदितान् परीषहोपसर्गान् अभिहितस्वरूपान् सम्यक् कषायोदयनिरोधादिना सहेत भयाभावेनाविचलनाद् भटं भटवत, क्षमेत क्षान्त्या, तितिक्षेत अदीनतया, 10 अध्यासीत परीषहादावेवाधिक्येनासीत न चलेदिति । उदीर्णम् उदितं प्रबलं वा कर्म मिथ्यात्वमोहनीयादि यस्य स उदीर्णका खलुक्यालङ्कारे अयं प्रत्यक्षः पुरुषः, उन्मत्तको मदिरादिना विप्लुतचित्तः, स इव उन्मत्तकभूतः, भूतशब्दस्योपमानार्थत्वात्, उन्मत्तक एव वा उन्मत्तकभूतः, भूतशब्दस्य प्रकृत्यर्थत्वात्, तेण त्ति उदीर्णकर्मा यतोऽयमुन्मत्तकभूत: पुरुष: तेन कारणेन मे इति माम् एष: अयमाक्रोशति शपति 15 अपहसति उपहासं करोति अपघर्षति वा अपघर्षणं करोति, निश्छोटयति सम्बन्ध्यन्तरसम्बद्धं हस्तादौ गृहीत्वा बलात् क्षिपति, निर्भर्त्सयति दुर्वचनैः, बध्नाति रज्ज्वादिना, रुणद्धि कारागारप्रवेशादिना, छवे: शरीरावयवस्य हस्तादेः छेदं करोति, मरणप्रारम्भः प्रमारो मूर्छाविशेषो मारणस्थानं वा तं नयति प्रापयतीति, अपद्रावयति मारयति, अथवा प्रमारं मरणमेव, उद्दवेइ त्ति उपद्रवयति उपद्रवं करोतीति, पतद्ग्रहं 20 पात्रं कम्बलं प्रतीतं पादप्रोञ्छनं रजोहरणम् आच्छिनत्ति बलादुद्दालयति, विच्छिनत्ति विच्छिन्नं करोति, दूरे व्यवस्थापयतीत्यर्थः, अथवा वस्त्रमीषच्छिनत्ति आच्छिनत्ति, विशेषेण छिनत्ति विच्छिनत्ति, भिनत्ति पात्रं स्फोटयति, अपहरति चोरयति, वाशब्दा: सर्वे विकल्पार्था इत्येकं परीषहादिसहनालम्बनस्थानम्, इदं चाक्रोशादिकम् इह प्राय १. 'श्चक्ष्वाकादि खं० । 'श्चक्ष्वाकादि पा० जे२ ॥ २. दीन्यप पा० जे२ । दीन्नप' खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy