________________
५३०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे त्ति पद्मप्रभसूत्रमिव पुष्पदन्तसूत्रमप्यध्येतव्यम्, एवम् अनन्तरोक्तस्वरूपेण एतेन अनन्तरत्वात् प्रत्यक्षेणाभिलापेन सूत्रपाठेनेमास्तिस्र: सूत्रसङ्ग्रहणिगाथा अनुगन्तव्या: अनुसतव्या: शेषसूत्राभिलापनिष्पादनार्थम् । पउमप्पभस्सेत्यादि, तत्र पद्मप्रभस्य चित्रानक्षत्रं च्यवनादिषु पञ्चसु स्थानकेषु भवतीत्यादि गाथाक्षरार्थो वक्तव्यः, 5 सूत्राभिलापस्त्वाद्यसूत्रद्वयस्य साक्षाद्दर्शित एव, इतरेषां त्वेवम्- ‘सीयले णं अरहा पंचपुव्वासाढे होत्था, तंजहा- पुव्वासाढाहिं चुए चइत्ता गब्भं वक्ते, पुव्वासाढाहिं जाए' इत्यादि, एवं सर्वाण्यपि इति, व्याख्या त्वेवम्- पुष्पदन्तो नवमतीर्थकर: आनतकल्पादेकोनविंशतिसागरोपमस्थितिकात् फाल्गुनबहुलनवम्यां मूलनक्षत्रे च्युतः,
च्युत्वा काकन्दीनगर्यां सुग्रीवराजभार्याया: रामाभिधानाया गर्भत्वेन व्युत्क्रान्त:, 10 मूलनक्षत्रे मार्गशीर्षबहुलपञ्चम्यां जातः, तथा मूल एव ज्येष्ठशुद्धप्रतिपदि मतान्तरेण
मार्गशीर्षबहुलषष्ठ्यां निष्क्रान्तः, तथा मूल एव कार्तिकशुद्धतृतीयायां केवलज्ञानमुत्पन्नम्, तथा अश्वयुज: शुद्धनवम्यामादेशान्तरेण वैशाखबहुलषष्ठ्यां निर्वृत इति २, तथा शीतलो दशमजिन: प्राणतकल्पाविंशतिसागरोपमस्थितिकाद्वैशाखबहुलषष्ठ्यां पूर्वाषाढानक्षत्रे च्युतः
च्युत्वा च भद्दिलपुरे दृढरथनृपतिभाया नन्दाया गर्भतया व्युत्क्रान्तः, तथा 15 पूर्वाषाढास्वेव माघबहुलद्वादश्यां जात:, तथा पूर्वाषाढास्वेव माघबहुलद्वादश्यां निष्क्रान्त:,
तथा पूर्वाषाढास्वेव पौषस्य शुद्धे मतान्तरेण बहुले पक्षे चतुर्दश्यां ज्ञानमुत्पन्नम्, तथा तत्रैव नक्षत्रे श्रावणशुद्धपञ्चम्यां मतान्तरेण श्रावणबहुलद्वितीयायां निर्वृत इति, एवं गाथात्रयोक्तानां शेषाणामपि सूत्राणां प्रथमानुयोगपदानुसारेणोपयुज्य व्याख्या कार्या, नवरं चतुर्दशसूत्रे अभिलापविशेषोऽस्तीति तद्दर्शनार्थमाह-समणे इत्यादि, हस्तोपलक्षिता 20 उत्तरा हस्तोत्तरा हस्तो वोत्तरो यासां ता हस्तोत्तरा: उत्तरा: फाल्गुन्यः, पञ्चसु च्यवन
गर्भहरणादिषु हस्तोत्तरा यस्य स तथा, गर्भात् गर्भस्थानात् गब्भं ति गर्भे गर्भस्थानान्तरे संहृतो नीत:, निर्वृतस्तु स्वातिनक्षत्रे कार्तिकामावास्यायामिति ।
॥ इति पञ्चस्थानकस्य प्रथमोद्देशको विवरणत: समाप्त: ॥
१. ति दर्शना जे१ ॥ २. हस्तोत्तरा जे१ विना नास्ति ॥ ३. प्रथम उद्दे° जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org