________________
पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः ।
कल्पनीयमुचितमभिग्रहविशेषाद्भक्तादि यस्य स संसृष्टकल्पिकः, तथा तज्जातेन देयद्रव्यप्रकारेण यत् संसृष्टं हस्तादि तेन दीयमानं कल्पिकं यस्येति विग्रह इति, उपनिधीयत इत्युपनिधिः प्रत्यासन्नं यद्यथाकथञ्चिदानीतम्, तेन चरति, तद्ग्रहणायेत्यर्थः इत्यौपनिधिकः, उपनिहितमेव वा यस्य ग्रहणविषयतयाऽस्ति स प्रज्ञादेराकृतिगणत्वेन मत्वर्थीयाण्प्रत्यये औपनिहित इति, तथा शुद्धा अनतिचारा एषणा 5 शङ्कितादिदोषवर्जनरूपा संसट्टमसंसट्टे [ ]त्यादिसप्तप्रकारा अन्यतरा वा, चरतीत्युत्तरपदवृद्ध्या शुद्धैषणिकः, सख्याप्रधानाः परिमिता एव दत्तय: सकृद्भक्तादिक्षेपलक्षणा ग्राह्याः यस्य स सङ्ख्यादत्तिकः, दत्तिलक्षण श्लोकोऽत्रदत्ती उ जत्तिए वारे खिवई होंति तत्तिया । अवोच्छिन्नणिवायाओ दत्ती होइ दवेतरा ॥ [
तया
] इति ।
10
तथा दृष्टस्यैव भक्तादेर्लाभस्तेन चरतीति तथैव दृष्टलाभिकः, पृष्टस्यैव 'साधो ! दीयते ते' ? इत्येवं यो लाभस्तेन चरतीति प्राग्वत् पृष्टलाभिकः, आचाम्लं समयप्रसिद्धम्, तेन चरतीत्याचाम्लिकः, निर्गतो घृतादिविकृतिभ्यो यः स निर्व्विकृतिकः, पुरिमार्द्धं पूर्वाह्णलक्षणं प्रत्याख्यानविशेषोऽस्ति यस्य स तथा, परिमितो द्रव्यादिपरिमाणतः पिण्डपातो भक्तादिलाभो यस्यास्ति स परिमितपिण्डपातिकः, 15 भिन्नस्यैव स्फोटितस्यैव पिण्डस्य सक्तुकादिसम्बन्धिनः पातो लाभो यस्यास्ति स भिन्नपिण्डपातिकः ।
[सू० ३९६]
ग्रहणानन्तरमभ्यवहरणं भवतीत्यत एतदुच्यते- अरसं हिङ्गवादिभिरसंस्कृतमाहारयतीत्यरसो वाऽऽहारो यस्यासावरसाहारः, एवं सर्वत्र, नवरं विरसं विगतरसं पुराणधान्यौदनादि, रूक्षं तैलादिवर्जितमिति, तथा अरसेन जीवितुं शीलमाजन्मापि 20 यस्य स तथा, एवमन्यत्रापि ।
ठाणाइए त्तिस्थानं कायोत्सर्गः, तमतिददाति प्रकरोति अतिगच्छति वेति स्थानातिद:
५१३
१. "प्रज्ञा-श्रद्धा-ऽर्चाभ्यो णः | ५ | २|१०१ | अण् च | ५|२|१०३ ” - पा० ॥ २. “ संसट्टमसंसट्टा उद्धड तह होइ अप्पलेवा य । उग्गहिया पग्गहिया उज्झिय तह होइ सत्तमिया ॥” इति आवश्यकसूत्रस्य प्रतिक्रमणाध्ययने 'सत्तण्हं पिंडेसणाणं' इति सूत्रस्य हारिभद्र्यां वृत्तौ प्रवचनसारोद्धारे [ गा० ७६९] चापि सम्पूर्णा गाथेयं वर्तते ॥ ३. 'लक्षणे लो जे१ । 'लक्षण: लो जे२ । 'लक्ष खं० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org