________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे संविग्गअन्नसंभोइयाण देसिज सड्ढगकुलाणि । अतरंतो वा संभोइयाण देसे जहसमाही ॥ [पञ्चव० ५३७-५३८, पञ्चा० ५।४०-४१] इति ब्रह्मचर्य मैथुनविरमणे तेन वा वासो ब्रह्मचर्यवास इत्येष पूर्वोक्तैः सह दशविध: श्रमणधर्म इति, अन्यत्र त्वयमेवमुक्त:
खंती य मद्दवऽज्जव मुत्ती तवसंजमे य बोद्धव्वे । सच्चं सोयं आकिंचणं च बंभं च जइधम्मो ॥ [पञ्चाशक० ११।१९ आव० सं०] इति।
इतश्च साधुधर्मभेदस्य बाह्यतपोविशेषस्य वृत्तिसक्षेपाभिधानस्य भेदा: उक्खित्तचरए इत्यादिना अभिधीयन्ते, तत्र उत्क्षिप्तं स्वप्रयोजनाय पाकभाजनादुद्धृतं तदर्थमभिग्रहविशेषाच्चरति तद्वेषणाय गच्छतीत्युत्क्षिप्तचरकः, एवं सर्वत्र, नवरं निक्षिप्तम् अनुद्धृतम्, 10 अन्ते भवमान्तं भुक्तावशेष वल्लादि, प्रकृष्टमान्तं प्रान्तं तदेव पर्युषितम्, रूक्षं नि:स्नेहमिति,
इह च भावप्रत्ययप्रधानत्वेन उत्क्षिप्तचरकत्वमित्यादि द्रष्टव्यमेवमुत्तरत्रापि भावप्रधानता दृश्या, इह चाद्यौ भावाभिग्रहावितरे द्रव्याभिग्रहाः, यतोऽभाणि__ उक्खित्तमाइचरगा भावजुया खलु अभिग्गहा होति ।
गायंतो य रुयंतो जं देइ निसण्णमाई वा ॥ [पञ्चव० ३०३] तथा15 लेवडमलेवडं वा असुगं दव्वं व अज्ज घेच्छामि ।
असुगेण उ दव्वेणं अह दव्वाभिग्गहो नामं ॥ [पञ्चव० २९८] ति ।
एवमन्यत्रापि विशेष ऊह्य इति । अज्ञात: अनुपदर्शितस्वाजन्यर्द्धिमत्प्रव्रजितादिभाव: सन् चरति भिक्षार्थमटतीत्यज्ञातचरकः, तथा अन्नइलायचरए त्ति अन्नग्लानको
दोषान्नभुगिति भगवतीटीपनके उक्तः, एवंविध: सन्, अथवा अन्नं विना ग्लायकः, 20 समुत्पन्नवेदनादिकारण एवेत्यर्थः, अन्यस्मै वा ग्लायकाय भोजनार्थं चरतीति
अन्नग्लानकचरकोऽन्नग्लायकचरकोऽन्यग्लायकचरको वा, क्वचित् पाठः अन्नवेल त्ति, तत्राऽन्यस्यां भोजनकालापेक्षयाऽऽद्यवसानरूपायां वेलायां समये चरतीत्यादि दृश्यम्, अयं च कालाभिग्रह इति । तथा मौनं मौनव्रतं तेन चरति मौनचरकः, तथा संसष्टेन खरण्टितेनेत्यर्थो हस्त-भाजनादिना दीयमानं कल्पिकं कल्पवत् १. आवश्यकसूत्रस्य चतुर्थे प्रतिक्रमणाध्ययने ‘दसविहे समणधम्मे' इति सूत्रस्य हरभिद्रसूरिविरचितायां वृत्तौ ।
प्रवचनसारोद्धारे ५५३ ॥ २. द्वृत्तं खं० जे२ । 'द्वतं जे१ ॥ ३. धाव पासं० जे२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org