________________
10
[सू० ३९६ पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः ।
५११ नवरमकृच्छ्रार्थविशिष्टता आख्यानादीनां वाच्या, तथा सुरनुचरं ति रेफ: प्राकृतत्वादिति।
नित्यं सदा वर्णितानि फलत:, कीर्त्तितानि संशब्दितानि नामतः, बुइयाइं ति व्यक्तवाचोक्तानि स्वरूपतः, प्रशस्तानि प्रशंसितानि श्लाषितानि शंसु स्तुतौ [पा० धा० ७२८] इति वचनात्, अभ्यनुज्ञातानि कर्त्तव्यतया अनुमतानि भवन्तीति, अयं च सूत्रोत्क्षेप: प्रतिसूत्रं वैयावृत्यसूत्रं यावद् दृश्य इति, तत्र क्षान्त्यादय: क्रोध-लोभ- 5 माया-माननिग्रहा: तथा लाघवमुपकरणतो गौरवत्रयत्यागतश्चेति, तथाऽन्यानि पञ्च, सद्भ्यो हितं सत्यम् अनलीकम्, तच्चतुर्विधम्, यतोऽवाचि
अविसंवादनयोग: कायमनोवागजिह्मता चैव । सत्यं चतुर्विधं तच्च जिनवरमतेऽस्ति नान्यत्र ॥ [प्रशम० १७४] इति । तथा संयमनं संयमो हिंसादिनिवृत्तिः, स च सप्तदशविधः, तदुक्तम्पुढवि-दग-अगणि-मारुय-वणप्फइ-बितिचउपणिंदि-अज्जीवे । पेहोपेहपमजणपरिट्ठवणमणोवईकाए ॥ [दशवै० नि० ४६], अथवापञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयम: सप्तदशभेदः ॥ [प्रशम० १७२], इति । तथा तप्यतेऽनेनेति तपः, यतोऽभ्यधायिरस-रुधिर-मांस-मेदो-ऽस्थि-मज-शुक्राण्यनेन तप्यन्ते । कर्माणि वाऽशुभानीत्यतस्तपो नाम नैरुक्तम् ॥ [ ] तच्च द्वादशधा, यथाऽऽहअणसणमूणोयरिया वित्तीसंखेवणं रसच्चाओ। कायकिलेसो संलीणया य बज्झो तवो होइ ॥ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गो वि य अन्भिंतरओ तवो होइ ॥ [देशवै० नि० ४७-४८] इति । चियाए त्ति त्यजनं त्यागः, संविग्नैकसम्भोगिकानां भक्तादिदानमित्यर्थः, गाथे चात्रतो कयपच्चक्खाणो आयरियगिलाणबालवुड्डाणं । देजाऽसणाइ संते लाभे कयवीरियायारो ॥
25 सू० ३९७ ॥ २. आवश्यकसूत्रस्य चतुर्थे प्रतिक्रमणाध्ययने 'सत्तरसविहे असंजमे' इति सूत्रस्य [संग्रहणी?] गाथायाम् । प्रवचनसारोद्धारे ५५५, जीवसमासे २६ तमी गाथा । ३. पञ्चवस्तुके ८४५-८४६, पञ्चाशके १९।२-३, प्रवचनसारोद्धारे ५५९-५६० ॥
15
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org