SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [0] अनन्तरं शरीराणि प्ररूपितानीति शरीरिविशेषगतान् धर्मविशेषान् पंचहिं ठाणेहीत्यादिनाऽऽर्जर्वसूत्रान्तेन ग्रन्थेन दर्शयति, सुगमश्चायम्, नवरं पञ्चसु स्थानकेषु आख्यांनादिक्रियाविशेषलक्षणेषु पुरिमा भरतैरावतेषु चतुर्विंशतेरादिमास्ते च पश्चिमकाश्च चरमाः पुरिम-पश्चिमकास्तेषां जिनानाम् अर्हतां दुग्गमं ति दुःखेन गम्यत इति 5 दुर्गमम्, भावसाधनोऽयं कृच्छ्रवृत्तिरित्यर्थः, तद् भवति विनेयानामृजुजडत्वेन वक्रजडत्वेन च, तानि चेमानि तद्यथेत्यादि, इह चाख्यानं विभजनं दर्शनं तितिक्षणमनुचरणं चेत्येवं वक्तव्येऽपि येषु स्थानेषु कृच्छ्रवृत्तिर्भवति तानि तद्योगात् कृच्छ्रवृत्तीन्येवोच्यन्ते इति कृच्छ्रवृत्तिद्योतकदुःशब्दविशेषितानि कर्मसाधनशब्दाभिधेयान्याख्यानादीनि विचित्रत्वाच्छब्दप्रवृत्तेराह । दुआइक्खमित्यादि, तत्र दुराख्येयं कृच्छ्राख्येयं वस्तुतत्त्वम्, 10 विनेयानां महावचनाटोपप्रबोध्यत्वेन भगवतामायासोत्पत्तेरित्येवमाख्याने कृच्छ्रवृत्तिरुक्ता, एवं विभजनादिष्वपि भावनीया, तथा आख्यातेऽपि तत्र दुर्विभजं कष्टविभजनीयम्, ऋजुजडत्वादेरेव तद् भवतीति दुःशकं शिष्याणां वस्तुतत्त्वस्य विभागेनावस्थापनमित्यर्थः, दुर्विभवमित्यत्र पाठान्तरे दुर्विभाव्यं दुःशका विभावना कर्त्तुं तस्येत्यर्थः, तथा दुप्पस्सं ति दुःखेन दर्श्यते इति दुर्दर्शम् उपपत्तिभिर्दुः शकं शिष्याणां प्रतीतावारोपयितुं तत्त्वमिति 15 भाव:, दुतितिक्खं ति दुःखेन तितिक्ष्यते सह्यते इति दुस्तितिक्षं परीषहादि, दु:शकं परीषहादिकमुत्पन्नं तितिक्षयितुम्, शिष्यं तत् प्रति क्षमां कारयितुमिति भाव इति, दुरणुचरं ति दुःखेनानुचर्यते अनुष्ठीयत इति दुरनुचरमन्तर्भूतकारितार्थत्वेन दुःशकमनुष्ठापयितुमित्यर्थः, अथवा तेषां तीर्थे दुराख्येयं दुर्व्विभजमाचार्यादीनां वस्तुतत्त्वं शिष्यान् प्रति, आत्मनापि दुर्दृशं दुस्तितिक्षं दुरनुचरमित्येवं कारितार्थं विमुच्य व्याख्येयम्, 20 तेषामपि ऋजु-जडादित्वादिति । ५१० मध्यमानां तु सुगमम् अकृच्छ्रवृत्ति:, तद्विनेयानामृजुप्रज्ञत्वेनाल्पप्रयत्नेनैव बोधनीयत्वाद् विहितानुष्ठाने सुखप्रवर्त्तनीयत्वाच्चेति शेषं पूर्ववत्, १. दृश्यतां सू० ४०० ॥ २. भवति जे१ जे२ ॥ ३. “इन् कारितं धात्वर्थे |४३| धातोश्च हेतौ ॥४४॥ हेतुशब्देन हेतुकर्तृव्यापारोऽर्थादवगम्यते । धात्वर्थं वर्तयन्त्यन्ये । हेतुकर्तृव्यापारो वर्तमानाद्धातोश्चेत् परो भवति, च कारितसंज्ञकः । कुर्वन्तं प्रयुङ्क्ते कारयति । पचन्तं प्रयुङ्क्ते पाचयति ॥” इति कातन्त्रव्याकरणस्य दुर्गसिंहरचितायां वृत्तौ आख्यातप्रकरणे ॥ ४. दुर्दृश्यं जे१ खं० ॥ Jain Education International , For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy