SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ ५०२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे पंच ठाणा सुपरिन्नाता जीवाणं सुगतिगमणाए भवंति, तंजहा-सद्दा जाव फासा १३ । [सू० ३९१] पंचहिं ठाणेहिं जीवा दोग्गतिं गच्छंति, तंजहा-पाणातिवातेणं जाव परिग्गहेणं । 5 पंचहिं ठाणेहिं जीवा सोग्गतिं गच्छंति, तंजहा-पाणातिवातवेरमणेणं जाव परिग्गहवेरमणेणं । _[टी०] इच्छापरिमाणं चेन्द्रियार्थगोचरं श्रेय इतीन्द्रियार्थवक्तव्यतार्थं पंच वन्नेत्यादित्रयोदशसूत्रीमाह, प्रकटा चेयम्, नवरं पञ्च वर्णाः १, पञ्चैव रसाः, तदन्येषां सांयोगिकत्वेनाविवक्षितत्वादिति २, कामगुण त्ति कामस्य मदनाभिलाषस्य 10 अभिलाषमात्रस्य वा सम्पादका गुणा धाः पुद्गलानाम्, काम्यन्त इति कामाः ते च ते गुणाश्चेति वा कामगुणा इति ३, पंचहिं ठाणेहिं ति पञ्चसु पञ्चभिर्वा स्थानेषु रागाद्याश्रयेषु तैर्वा सह सज्यन्ते सङ्गं सम्बन्धं कुर्वन्तीति ४, एवमिति पञ्चस्वेव स्थानेषु रज्यन्ते सङ्गकारणं रागं यान्तीति ५, मूर्च्छन्ति तद्दोषानवलोकनेन मोहमचेतनत्वमिव यान्ति संरक्षणानुबन्धवन्तो वा भवन्तीति ६, गृध्यन्ति प्राप्तस्यासन्तोषेणा15 प्राप्तस्यापरापरस्याकाङ्क्षावन्तो भवन्तीति ७, अध्युपपद्यन्ते तदेकचित्ता भवन्ति तदर्जनाय वाऽऽधिक्येनोपपद्यन्ते उपपन्ना घटमाना भवन्तीति ८, विनिघातं मरणं मृगादिवत् संसारं वाऽऽपद्यन्ते प्राप्नुवन्तीति, आह च सक्तः शब्दे हरिणः स्पर्श नागो रसे च वारिचरः । कृपणपतङ्गो रूपे भुजगो गन्धे ननु विनष्टः ॥ पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः । एकः पञ्चसु सक्तः प्रयाति भस्मान्ततां मूढः ॥ [ ] इति ।। अपरिन्नाय त्ति ज्ञपरिज्ञया स्वरूपतोऽपरिज्ञातानि अनवगतानि प्रत्याख्यानपरिज्ञया वाऽप्रत्याख्यातानि अहिताय अपायाय, अशुभाय अपुण्यबन्धाय असुखाय वा, अक्षमाय अनुचितत्वाय असमर्थत्वाय वा, अनिःश्रेयसाय अकल्याणायाऽमोक्षाय 25 वा, यदुपकारि सत् कालान्तरमनुयाति तदनुगामिकं तत्प्रतिषेधोऽननुगामिकं तद्भावस्तत्त्वं १. भवन्तीति पा० जे२ ॥ २. रक्तः जे१ पा० जे२ ॥ ३. रक्तः पा० जे२ ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy