________________
५००
आचार्यश्रीअभयदेवसूरिविरचितटीकासहित स्थानाङ्गसूत्रे सूक्ष्म-बादरभेदभिन्नात् कृत-कारिताऽनुमतिभेदाच्चेत्यर्थः, अथवा द्रव्यतः षड्जीवनिकायविषयात् क्षेत्रतस्त्रिलोकसम्भवात् कालतोऽतीतादे रात्र्यादिप्रभवाद्वा भावतश्च राग-द्वेषसमुत्थाच्च, न तु परिस्थूरादेवेति भावः । प्राणानाम् इन्द्रियोच्छ्वासायुरादीनामतिपात: प्राणिनः सकाशाद्विभ्रंशः प्राणातिपात:, 5 प्राणिप्राणवियोजनमित्यर्थः, तस्माद् विरमणं सम्यग्ज्ञान-श्रद्धानपूर्वकं निवर्त्तनमिति । तथा सर्वस्मात् सद्भावप्रतिषेधा १-ऽसद्भावोद्भावन २-अर्थान्तरोक्ति ३-गर्हा४भेदात् कृतादिभेदाच्च, अथवा द्रव्यतः सर्वधर्मास्तिकायादिद्रव्यविषयात् क्षेत्रतः सर्वलोकालोकगोचरात् कालतोऽतीतादे राज्यादिवर्तिनो वा भावत: कषायनोकषायादिप्रभवात् मृषा अलीकं वदनं वादो मृषावादः, तस्माद् विरमणं विरतिरिति। 10 तथा सर्वस्मात् कृतादिभेदात् अथवा द्रव्यत: सचेतना-ऽचेतनद्रव्यविषयात् क्षेत्रतो
ग्राम-नगरा-ऽरण्यादिसम्भवात् कालतोऽतीतादे रात्र्यादिप्रभवाद्वा भावतो राग-द्वेषमोहसमुत्थात् अदत्तं स्वामिना अवितीर्णं तस्याऽऽदानं ग्रहणमदत्तादानम्, तस्माद् विरमणमिति । तथा सर्वस्मात् कृत-कारिता-ऽनुमतिभेदात् अथवा द्रव्यतो दिव्य
मानुष-तैरश्चभेदात् रूप-रूपसहगतभेदाद्वा, तत्र रूपाणि निर्जीवानि प्रतिमारूपाण्युच्यन्ते 15 रूपसहगतानि तु सजीवानि, भूषणविकलानि वा रूपाणि भूषणसहितानि
रूपसहगतानीति, क्षेत्रतस्त्रिलोकसम्भवात् कालतोऽतीतादे रात्र्यादिसमुत्थाद्वा भावतो राग-द्वेषप्रभवात्, मिथुनं स्त्रीपुंसद्वन्द्वम्, तस्य कर्म मैथुनम्, तस्माद् विरमणमिति । तथा सर्वस्मात् कृतादेरथवा द्रव्यत: सर्वद्रव्यविषयात् क्षेत्रतो लोकसम्भवात्
कालतोऽतीतादे रात्र्यादिर्भवाद्वा भावतो राग-द्वेषविषयात्, परिगृह्यते आदीयते परिग्रहणं 20 वा परिग्रहः, तस्माद् विरमणमिति ।
व्रतप्रस्तावात् पञ्चाणुव्वयेत्याद्यणुव्रतसूत्रम्, स्फुटं चेदम्, किन्तु अणूनि लघूनि व्रतानि अणुव्रतानि, लघुत्वं च महाव्रतापेक्षया अल्पविषयत्वादिनेति प्रतीतमेवेति, उक्तं च
सव्वगयं सम्मत्तं सुए चरित्ते ण पज्जवा सव्वे । 25 देसविरइं पडुच्चा दोण्ह वि पडिसेहणं कुज्जा ॥ [विशेषाव० २७५१] इति ।
१. भावतो राग जे२ ॥ २. 'वर्त्तिनश्च जे१ खं० ॥ ३. °भवाच्च जे१ ॥ ४. व्वएत्यादि खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org