________________
Y२२
अथ पञ्चममध्ययनं पञ्चस्थानकम् ।
___ [प्रथम उद्देशकः ।] [सू० ३८९] पंच महव्वता पन्नत्ता, तंजहा-सव्वातो पाणातिवातातो वेरमणं जाव सव्वातो परिग्गहातो वेरमणं । पंचाणुव्वता पन्नत्ता, तंजहा-थूलातो पाणातिवातातो वेरमणं, थूलातो मुसावायातो वेरमणं, थूलातो अदिन्नादाणातो 5 वेरमणं, सदारसंतोसे, इच्छापरिमाणे । .
[टी०] व्याख्यातं चतुर्थमध्ययनम्, साम्प्रतं सङ्ख्याक्रमसम्बद्धमेव पञ्चस्थानकाख्यं पञ्चममध्ययनं व्याख्यायते, अस्य चायं विशेषाभिसम्बन्ध:-इहानन्तराध्ययने जीवाजीवतद्धर्माख्या: पदार्थाश्चतु:स्थानकावतारणेनाभिहिताः, इह तु त एव पञ्चस्थानकावतारणेनाभिधीयन्ते इत्यनेनाभिसम्बन्धेनायातस्यास्योद्देशकत्रयवतश्चतुरनु- 10 योगद्वारवतोऽध्ययनस्य प्रथमोद्देशको व्याख्यायते, अस्य च पूर्वोद्देशकेन सह सम्बन्धोऽधिकृताध्ययनवद् द्रष्टव्यः, तस्य चेदमादिसूत्रम्- पंच महव्वयेत्यादि । ___अस्य च पूर्वसूत्रेण सहायं सम्बन्ध:- पूर्वसूत्रे अजीवानां परिणामविशेष उक्तः, इह तु स एव जीवानामुच्यत इत्येवंसम्बन्धस्यास्य व्याख्या संहितादिक्रमेण, स च क्षुण्ण एव, नवरं पञ्चेति सङ्ख्यान्तरव्यवच्छेदः, तेन न चत्वारि, प्रथम-पश्चिमतीर्थयो: 15 पञ्चानामेव भावात्, महान्ति बृहन्ति तानि च तानि व्रतानि च नियमा महाव्रतानि, महत्त्वं चैषां सर्वजीवादिविषयत्वेन महाविषयत्वात्, उक्तं च
पढमम्मि सव्वजीवा बीए चरिमे अ सव्वदव्वाइं । सेसा महव्वया खलु तदेक्कदेसेण दव्वाणं ॥ [आव० नि० ५७४, विशेषाव० २६३७] ति,
तदेकदेसेणं ति तेषां द्रव्याणामेकदेशेनेत्यर्थः । तथा यावज्जीवं त्रिविधं त्रिविधेनेति 20 प्रत्याख्यानरूपत्वाच्च तेषामिति । देशविरतापेक्षया महतो वा गुणिनो व्रतानि महव्रतानीति, पुल्लिङ्गनिर्देशस्तु प्राकृतत्वादिति, प्रज्ञप्तानि तथाविधशिष्यापेक्षया प्ररूपितानि महावीरेणाऽऽद्यतीर्थकरेण च न शेषैरिति, एतत् किल सुधर्मस्वामी जम्बूस्वामिनं प्रति प्रतिपादयामास । तद्यथा- सर्वस्मात् निरवशेषात् त्रस-स्थावर१. व्वएत्यादि खं० पा० जे२ ॥ २. संबद्धस्यास्य जे१ ॥ ३. चरमे जे१ विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org