________________
[सू० ३८६-३८७] चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः ।
४९७ दारुग्रन्थ्यादेर्वा, आमिषं मांसादि, तदर्थमावर्त्तः शकुनिकादीनामामिषावर्त्त इति, एतत्समानता च क्रोधादीनां क्रमेण परापकारकरणदारुणत्वात्, पत्र-तृणादिवस्तुन इव मनस उन्नतत्वारोपणात्, अत्यन्तदुर्लक्षस्वरूपत्वात्, अनर्थशतसम्पातसङ्कुलेऽप्यवपतनकारणत्वाच्चेति । इयं चोपमा प्रकर्षवतां कोपादीनामिति तत्फलमाहखरावत्तेत्यादि, अशुभपरिणामस्याशुभकर्मबन्धनिमित्ततया दुर्गतिनिमित्तत्वादुच्यते- 5 णेरइएसु उववजइ त्ति ।
[सू० ३८६] अणुराधानक्खत्ते चउतारे पन्नत्ते । पुव्वा आसाढा एवं चेव। उत्तरा आसाढा एवं चेव ।।
[टी०] नारका अनन्तरमुक्ताः, तैश्च वैक्रियादिना समानधर्माणो देवा इति तद्विशेषभूतनक्षत्रदेवानां चतु:स्थानकं विवक्षुः अणुराहेत्यादि सूत्रत्रयमाह, कण्ठ्यं 10 चैतदिति ।
[सू० ३८७] जीवा णं चउट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा- नेरतियनिव्वत्तिते, तिरिक्खजोणितनिव्वत्तिते, मणुस्सनिव्वत्तिए, देवनिव्वत्तिते । एवं उवचिणिंसु वा उवचिणंति वा उवचिणिस्संति वा । एवं
15 चिण उवचिण बंध उदीर वेत तह निज्जरा चेव ॥३३॥
[टी०] देवत्वादिभेदश्च जीवानां कर्मपुद्गलचयादिकृत इति तत्प्रतिपादनायाह- जीवा णमित्यादि सूत्रषट्कं व्याख्यातं प्राक्, तथापि किञ्चिल्लिख्यते, जीवा णं ति णंशब्दो वाक्यालङ्कारार्थः, चतुर्भिः स्थानैः नारकत्वादिभि: पर्यायैर्निर्वर्तिताः कर्मपरिणाम नीतास्तथाविधाशुभपरिणामवशाद् बद्धास्ते चतु:स्थाननिर्वर्तिताः, तान् पुद्गलान्, कथं 20 निर्वर्त्तितानित्याह-पापकर्मतया अशुभस्वरूपज्ञानावरणादिरूपत्वेन, चिणिंसु त्ति तथाविधापरकर्मपुद्गलै श्चितवन्त:, पापप्रकृतीरल्पप्रदेशा बहुप्रदेशीकृतवन्तः, नेरइयनिव्वत्तिए त्ति नैरयिकेण सता निर्वर्त्तिता इति विग्रह:, एवं सर्वत्र, तथा एवं उवचिणिंसु त्ति चयसूत्राभिलापेनोपचयसूत्रं वाच्यम्, उवचिणिंसु त्ति उपचितवन्त: १. क्ष्यस्व जे२ ॥ २. एवं बंध उदीर वेद तध निजरा चेव ! एते छ आलावगा- भा० ॥ ३. स्थानकैः
जे२ ॥ ४. निव्वत्तिय त्ति जे१ । 'निवत्तिए त्ति जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org