SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 5 आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे I जिनसंकाशत्वे कारणमाह- जिणो विवेत्यादि । उक्कोसिय त्ति नातोऽधिकाश्चतुर्द्दशपूर्विणो बभूवुः कदाचिदपीति । ते च प्रायः कल्पेषु गता इति कल्पसूत्राणि सुगमानि च, नवरम् अद्धचंदंसंठाणसंठिए त्ति पूर्वापरतो मध्यभागें सीमासद्भावादिति । [सू० ३८४] चत्तारि समुद्दा पत्तेयरसा पन्नत्ता, तंजहा - लवणोदे, वरुणोदे, खीरोदे, घोदे । [टी०] देवलोका हि क्षेत्रमिति क्षेत्रप्रस्तावात् समुद्रसूत्रं व्यक्तम्, नवरम् एकमेकं प्रति भिन्नो रसो येषां ते प्रत्येकरसाः, अतुल्यरसा इत्यर्थः, लवणरसोदकत्वाल्लवणः, पाठान्तरे तु लवणमिवोदकं यत्र स लवणोदो निपातनादिति प्रथमः, वारुणी सुरा, 10 तया समानं वारुणम्, वारुणमुदकं यस्मिन् स वारुणोदः चतुर्थ:, क्षीरवत्तथा घृतवदुदकं यत्र स क्षीरोदः पञ्चमः, घृतोदः पष्ठः, कालोद - पुष्करोद-स्वयम्भुरमणा उदकरसाः, शेषास्तु इक्षुरसा इति, उक्तं च वारुणिवर खीरवरो घयवर लवणो य होंति पत्तेया । 15 ४९६ कालो पुक्खरउदही सयंभुरमणो य उदगरसा ॥ [ बृहत्सं० ८८] इति । [सू० ३८५] चत्तारि आवत्ता पन्नत्ता, तंजहा - खरावत्ते, उन्नतावत्ते, गूढावत्ते, आमिसावत्ते । एवामेव चत्तारि कसाया पन्नत्ता, तंजहा - खरावत्तसमाणे कोधे, उन्नत्तावत्तसमाणे माणे, गूढावत्तसमाणा माया, आमिसावत्तसमाणे लोभे १ । खरावत्तसमाणं कोहं अणुपविट्ठे जीवे कालं करेति णेरइएस उववज्जति, उन्नतावत्तसमाणं माणं एवं चेव, गूढावत्तसमाणं मातमेवं चेव, 20 आमिसावत्तसमाणं लोभमणुपविट्ठे जीवे कालं करेति नेरइएसु उववज्जति २ [ टी० ] अनन्तरं समुद्रा उक्तास्तेषु चावर्त्ता भवन्तीत्यावर्त्तान् दृष्टान्तान् कषायांश्च तद्दान्तिकानभिधित्सुः सूत्रद्वयमाह, सुगमं चैतत्, नवरं खरो निष्ठुरोऽतिवेगितया पातकश्छेदको वा आवर्त्तनमावर्त्तः स च समुद्रादेश्चक्रविशेषाणां वेति खरावर्त्तः, उन्नत: उच्छ्रित:, स चासावावर्त्तश्चेति उन्नतावर्त्तः, स च पर्वतशिखरारोहणमार्गस्य 25 वातोत्कलिकाया वा, गूढश्चासावावर्त्तश्चेति गूढावर्त्तः, स च गेन्दुकदवरकस्य १. संठाण त्ति जे१ खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy