________________
४९४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे अप्पं सुक्कं बहुं ओयं, इत्थी तत्थ पजातति । अप्पं ओयं बहुं सुक्कं, पुरिसो तत्थ जातति ॥३१॥ दोण्हं पि रत्तसुक्काणं, तुल्लभावे णपुंसगो ।
इत्थीओयसमाओगे, बिंबं तत्थ पजायति ॥३२॥ 5 [टी०] गर्भाधिकारान्नारीगर्भसूत्रं व्यक्तम्, केवलम् इत्थित्ताए त्ति स्त्रीतया, बिम्बमिति गर्भप्रतिबिम्बं गर्भाकृतिरार्त्तवपरिणामो न तु गर्भ एवेति, उक्तं च
अवस्थितं लोहितमङ्गनाया वातेन गर्भ ब्रुवतेऽनभिज्ञाः । गर्भाकृतित्वात् कटुकोष्णतीक्ष्णैः श्रुते पुन: केवल एव रक्ते ॥
गर्भ जडा भूतहतं वदन्ती [ ] त्यादि । 10 वैचित्र्यं गर्भस्य कारणभेदादिति श्लोकाभ्यां तदाह- अप्पमित्यादि, शुक्रं रेत: __पुरुषसम्बन्धि, ओज आर्त्तवं रक्तं स्त्रीसम्बन्धि यत्र गर्भाशय इति गम्यते इति, तथा
स्त्रिया ओजसा समायोगो वातवशेन तत्स्थिरीभवनलक्षण: स्त्र्योज:समायोगस्तस्मिन सति बिम्बं तत्र गर्भाशये प्रजायते, अन्यैरप्यत्रोक्तम्
अंत एव च शुक्रस्य, बाहुल्याजायते पुमान् । रक्तस्य स्त्री तयोः साम्ये, क्लीब: शुक्रा-वे पुन: ॥ वायुना बहुशो भिन्ने, यथास्वं बह्वपत्यता । वियोनिविकृताकारा, जायन्ते विकृतैर्मलैः ॥ [ ] इति ॥ [सू० ३७८] उप्पायपुव्वस्स णं चत्तारि चूलवत्थू पन्नत्ता ।
[टी०] गर्भ: प्राणिनां जन्मविशेष:, स चोत्पादोऽभिधीयते, उत्पादश्चोत्पादाभिधानपूर्वे 20 प्रपञ्च्यते इति तत्स्वरूपविशेषप्रतिपादनायाह- उप्पायेत्यादि कण्ठ्यम्, नवरम् उत्पादपूर्वं प्रथमं पूर्वाणाम्, तस्य चूला आचारस्याग्राणीव, तद्रूपाणि वस्तूनि परिच्छेदविशेषा अध्ययनवच्चूलावस्तूनि । [सू० ३७९] चउविहे कव्वे पन्नत्ते, तंजहा-गजे, पजे, कत्थे, गेये ।
[टी०] उत्पादपूर्वं हि काव्यमिति काव्यसूत्रम्, कण्ठ्यं चैतत्, नवरं काव्यं ग्रन्थः, 25 गद्यम् अच्छन्दोनिबद्धं शस्त्रपरिज्ञाध्ययनवत्, पद्यं छन्दोनिबद्धं विमुक्त्यध्ययनवत्,
१. तत जे१ ॥ २. °ध्ययनादिवत् जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org