________________
४९३
10
[सू० ३७७] चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः ।
[टी०] अनन्तरं देववक्तव्यतोक्ता, देवाश्चाप्कायतयाऽप्युत्पद्यन्ते इत्युदकगर्भप्रतिपादनाय चत्तारीत्यादि सूत्रद्वयमाह । दगगब्भ त्ति दकस्य उदकस्य गर्भा इव गर्भा दकगर्भाः कालान्तरे जलवर्षणस्य हेतवः, तत्संसूचका इति तत्त्वमिति, अवश्यायः क्षपाजलम्, महिका धूमिका, शीतान्यात्यन्तिकानि, एवमुष्णा धर्माः, एते हि यत्र दिन उत्पन्नास्तस्मादुत्कर्षेणाव्याहता: सन्त: षड्भिर्मासैरुदकं प्रसुवते, अन्यैः पुनरेवमुक्तम्- 5
पवनाभ्रवृष्टिविद्युद्गर्जितशीतोष्णरश्मिपरिवेषाः ।
जलमत्स्येन सहोक्ताः दशधा धातुप्रजनहेतुः ॥ [ ] तथा- शीता वाताश्च बिन्दुश्च गर्जितं परिवेषणम् ।
सर्वगर्भेषु शंसन्ति निर्ग्रन्था: साधुदर्शना: ॥ [भद्रबाहु० १२।८] तथा- सप्तमे सप्तमे मासे सप्तमे सप्तमे ऽहनि ।
गर्भाः पाकं नियच्छन्ति यादृशास्तादृशं फलम् ॥ [भद्रबाहु० १२।४] हिमं तुहिनम्, तदेव हिमकम्, तस्यैते हैमका हिमपातरूपा इत्यर्थः, अब्भसंथड त्ति अभ्रसंस्थितानि, मेधैराकाशाच्छादनानीत्यर्थः, आत्यन्तिके शीतोष्णे, पञ्चानां रूपाणां गर्जित-विधु-जल-वाता-ऽभ्रलक्षणानां समाहार: पञ्चरूपम्, तदस्ति येषां ते पञ्चरूपिका उदकगर्भाः, इह मतान्तरमेवम्
पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः । नात्यर्थं मार्गशीर्षे शीतं पौषेऽतिहिमपातः ॥ माघे प्रबलो वायुस्तुषारकलुषद्युती रविशशाङ्कौ । अतिशीतं सघनस्य च भानोरस्तोदयौ धन्यौ ॥ फाल्गुनमासे रूक्षश्चण्ड: पवनोऽभ्रसम्प्लवा: स्निग्धाः । परिवेषाश्चासकला: कपिलस्ताम्रो रविश्च शुभः ॥ पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभा: सपरिवेषा: । घनपवनसलिलविद्युत्स्तनितैश्च हिताय वैशाखे ॥ [बृहत्संहिता २१।१९-२२] इति । तानेव मासभेदेन दर्शयति- माहेत्यादि श्लोकः। [सू० ३७७] चत्तारि मणुस्सीगब्भा पन्नत्ता, तंजहा-इत्थित्ताते, पुरिसत्ताते, 25 णपुंसगत्ताते, बिंबत्ताते१. “शीतवातश्च विद्युच्च-" भद्रबाहु० ॥ २. मार्गशिरे जे१ विना ॥
15
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org