________________
[सू० ३७४] चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः ।
४९१ एवोच्यते, अतस्तेनेति । प्रकृत्या स्वभावेन भद्रकता परानुपतापिता या सा प्रकृतिभद्रकता, तया, सानुक्रोशतया सदयतया, मत्सरिकता परगुणासहिष्णुता, तत्प्रतिषेधोऽमत्सरिकता, तयेति । सरागसंयमेन सकषायचारित्रेण, वीतरागसंयमिनामायुषो बन्धाभावात्, संयमासंयमो द्विस्वभावत्वाद्देशसंयम:, बाला इव बाला मिथ्यादृशस्तेषां तपःकर्म तप:क्रिया बालतपःकर्म, तेन, अकामेन निर्जरां 5 प्रत्यनभिलाषेण निर्जरा कर्मनिर्जरणहेतुर्बुभुक्षादिसहनं यत् सा अकामनिर्जरा, तया। [सू० ३७४] चउव्विहे वजे पन्नत्ते, तंजहा-तते, वितते, घणे, झुसिरे १। चउव्विहे नहे पन्नत्ते, तंजहा-अंचिते, रिभिते, आरभडे, भसोले २॥ चउव्विहे गेए पन्नत्ते, तंजहा-उक्खित्तए, पत्तए, मंदए, रोविंदए । चउव्विहे मल्ले पन्नत्ते, तंजहा-गंथिमे, वेढिमे, पूरिमे, संघातिमे ४। 10
चउव्विहे अलंकारे पन्नत्ते, तंजहा-केसालंकारे, वत्थालंकारे, मल्लालंकारे, आभरणालंकारे ५। ___ चउब्विहे अभिणते पन्नत्ते, तंजहा-दिलृतिते, पाडंसुते, सामंतोवातणिते, लोगमज्झावसिते ६।
[टी०] अनन्तरं देवोत्पत्तिकारणान्युक्तानि, देवाश्च वाद्य-नाट्यादिरतयो भवन्तीति 15 वाद्यादिभेदाभिधानाय षट्सूत्री, तत्र वजे त्ति वाद्यम्, तत्र तंतं वीणादिकं ज्ञेयं विततं पटहादिकम् । घनं तु कांस्यतालादि वंशादि शुषिरं मतम् ॥ [ ] इति । नाट्य-गेया-ऽभिनयसूत्राणि सम्प्रदायाभावान्न विवृतानि । मालायां साधु माल्यं पुष्पम्, तद्रचनापि माल्यम्, ग्रन्थः सन्दर्भ: सूत्रेण ग्रन्थनम्, 20 तेन निर्वृत्तं ग्रन्थिमं मालादि, वेष्टनं वेष्टः, तेन निर्वृत्तं वेष्टिमं मुकुटादि, पूरेण पूरणेन निर्वृत्तं पूरिमं मृन्मयमनेकच्छिद्रं वंशशलाकादिपञ्जरं वा यत् पुष्पैः पूर्यत इति, सङ्घातेन निर्वृत्तं सङ्घातिमं यत् परस्परत: पुष्पनालादिसङ्घातनेनोपजन्यत इति । अलक्रियते भूष्यतेऽनेनेत्यलङ्कारः, केशा एवालङ्कार: केशालङ्कारः, एवं सर्वत्र ।
१. दृश्यतां सू०७३ टि०३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org