SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ ४९० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [टी०] इदं च गुणनाशनादि शरीरेण क्रियत इति शरीरस्योत्पत्ति-निर्वृत्तिसूत्राणां दण्डकद्वयम्, कण्ठ्यं चैतत्, नवरं क्रोधादयः कर्मबन्धहेतवः, कर्म च शरीरोत्पत्तिकारणमिति कारणकारणे कारणोपचारात् क्रोधादय: शरीरोत्पत्तिनिमित्ततया व्यपदिश्यन्त इति चउहिं ठाणेहिं सरीरेत्याद्युक्तम्, क्रोधादिजन्यकर्मनिवर्तितत्वात् 5 क्रोधादिनिर्वर्तितं शरीरमित्यपदिष्टम्, इह चोत्पत्तिरारम्भमात्रं निर्वृत्तिस्तुं निष्पत्तिरिति। [सू० ३७२] चत्तारि धम्मदारा पन्नत्ता, तंजहा-खंती, मुत्ती, अजवे, मद्दवे। [टी०] क्रोधादय: शरीरनिर्वृत्तेः कारणानीत्युक्तम्, तन्निग्रहास्तु धर्मस्येत्याह- चत्तारि धम्मेत्यादि, धर्मस्य चारित्रलक्षणस्य द्वाराणीव द्वाराणि उपाया: । [सू० ३७३] चउहि ठाणेहिं जीवा रतियत्ताए कम्मं पकरेंति, तंजहा10 महारंभताते, महापरिग्गहताते, पंचेंदियवहेणं, कुणिमाहारेणं १ . चउहिं ठाणेहिं जीवा तिरिक्खजोणियत्ताए कम्मं पगरेंति, तंजहामाइल्लताते, णियडिल्लताते, अलियवयणेणं, कूडतुलकूडमाणेणं २ चउहिं ठाणेहिं जीवा मणुस्सत्ताते कम्मं पकरेंति, तंजहा-पगतिभद्दताते, पगतिविणीयताए, साणुक्कोसताते, अमच्छरितताते ३। 15 चउहिं ठाणेहिं जीवा देवाउयत्ताए कम्मं पकरेंति, तंजहा-सरागसंजमेणं, संजमासंजमेणं, बालतवोकम्मेणं, अकामणिजराए ४।। [टी०] क्षान्त्यादीनि धर्मद्वाराणीत्युक्तम्, अथारम्भादीनि नारकत्वादिसाधनकर्मणो द्वाराणीति विभागत: चउहिं ठाणेहीत्यादिना सूत्रचतुष्टयेनाह, कण्ठ्यं चैतत्, नवरं नेरइयत्ताए त्ति नैरयिकत्वाय नैरयिकतायै नैरयिकतया वा कर्म आयुष्कादि, 20 नेरइयाउयत्ताए त्ति पाठान्तरे नैरयिकायुष्कतया नैरयिकायुष्करूपं कर्म कर्मदलिकमिति, महान् इच्छापरिमाणेनाकृतमर्यादतया बृहन् आरम्भः पृथिव्याधुपमर्दलक्षणो यस्य स महारम्भ: चक्रवर्त्यादिः, तद्भावस्तत्ता, तया महारम्भतया, एवं महापरिग्रहतयाऽपि, नवरं परिगृह्यत इति परिग्रहो हिरण्य-सुवर्ण-द्विपद-चतुष्पदादिरिति, कुणिममिति मांसम्, तदेवाहारो भोजनम्, तेन । माइल्लयाए त्ति मायितया, माया च मन:कुटिलता, 25 नियडिल्लयाए त्ति निकृतिमत्तया, निकृतिश्च वञ्चनार्थं कायचेष्टाद्यन्यथाकरणलक्षणा अत्युपचारलक्षणा वा, तद्वत्तया, कूटतुलाकूटमानेन यो व्यवहारः स कूटतुलाकूटमान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy