________________
[सू० ३७०-३७१]
चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः ।
स्याल्पत्वेनाविवक्षितत्वादिति, एवं चेह विकलेन्द्रियवर्जनेन षोडश क्रियासूत्राणि वैमानिकान्तानि भवन्तीति ।
[सू० ३७०] चउहिं ठाणेहिं संते गुणे नासेज्जा, तंजहा - कोधेणं, पडिनिवेसेणं, अकयण्णुताए, मिच्छत्ताभिनिवेसेणं ।
चउहिं ठाणेहिं असंते गुणे दीवेज्जा, तंजहा- अब्भासवत्तितं, 5 परच्छंदाणुवत्तितं, कज्जहेउं, कतपडिकतितेति
।
[टी०] अनन्तरं क्रिया उक्तास्तद्वांश्च सद्भूतान् परगुणान् नाशयति प्रकाशयति चेत्येवमर्थं सूत्रद्वयम्, तच्च सुगमम्, नवरं सतो विद्यमानान् गुणान् नाशयेदिव नाशयेत् अपलपति, न मन्यते, क्रोधेन रोषेण, तथा प्रतिनिवेशेन 'एष पूज्यते अहं तु न' इत्येवं परपूजाया असहनलक्षणेन, कृतमुपकारं परसम्बन्धिनं न जानातीत्यकृतज्ञः, तद्भावस्तत्ता, तया, मिथ्यात्वाभिनिवेशेन बोधविपर्यासेन, उक्तं च
10
रोसेण पडिनिवेसेण तहय अकयण्णुमिच्छभावेणं । संतगुणेनासित्ता भाइ अगुणे असंते वा ॥ [ ] इति ।
असत: अविद्यमानान्, क्वचित् संते त्ति पाठस्तत्र च सतो विद्यमानान् गुणान् दीपयेत् वदेदित्यर्थः, अभ्यासो हेवाको वर्णनीयासन्नता वा प्रत्ययो निमित्तं यत्र दीपने 15 तदभ्यासप्रत्ययम्, दृश्यते ह्यभ्यासान्निर्विषयापि निष्फलापि च प्रवृत्ति:, सन्निहितस्य च प्रायेण गुणानामेव ग्रहणमिति, तथा परच्छन्दस्य पराभिप्रायस्यानुवृत्तिः अनुवर्त्तना यत्र तत् परच्छन्दानुवृत्तिकं दीपनमेव, तथा कार्यहेतो: प्रयोजननिमित्तं चिकीर्षितकार्यं प्रत्यानुकूल्यकरणायेत्यर्थः, तथा कृते उपकृते प्रतिकृतं प्रत्युपकारः तद्यस्यास्ति स कृतप्रतिकृतिक:, इति वा कृतप्रत्युपकर्तेति हेतोरित्यर्थः, अथवा कृतप्रतिकृतये 20 इति वा एकेनैकस्योपकृतं गुणा वोत्कीर्त्तिताः स तस्यासतोऽपि गुणान् प्रत्युपकारार्थमुत्कीर्त्तयतीत्यर्थः, इतिरुपप्रदर्शने, वा विकल्पे ।
४८९
[सू० ३७१] णेरइयाणं चउहिं ठाणेहिं सरीरुप्पत्ती सिता, तंजहा - कोधेणं, माणेणं, माया, लोभेणं । एवं जाव वेमाणियाणं १ ।
णेरइयाणं चउट्ठाणनिव्वत्तिते सरीरए पन्नत्ते, तंजहा- कोहनिव्वत्तिए जाव 25 लोभव्विति । एवं जाव वेमाणियाणं २ |
१. ठाणेहिं संते भां० विना ॥
-A-16
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org