________________
आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
मुक्तो निरभिष्वङ्गतया मुक्तरूपो वैराग्यपिशुनाकारतया यतिरिवेत्येकः, द्वितीयोऽमुक्तरूप उक्तविपरीतत्वाद् गृहस्थावस्थायां महावीर इव तृतीयोऽमुक्तः साभिष्वङ्गत्वाच्छठयतिवत्, चतुर्थो गृहस्थ इति ।
[सू० ३६७] पंचेंदियतिरिक्खजोणिया चउगइया चउआगड़या पन्नत्ता, तंजहा - 5 पंचेंदियतिरिक्खजोणिए पंचेंदियतिरिक्खजोणिएसु उववज्जमाणे णेरइएहिंतो वा तिरिक्खजोणिएहिंतो वा मणुस्सेहिंतो वा देवेहिंतो वा उववज्जेज्जा, चेव णं से पंचेंदियतिरिक्खजोणिए पंचेंदियतिरिक्खजोणियत्तं विप्पजहमाणे रतितत्ताते वा जाव देवत्ताते वा गच्छेज्जा १ ।
10
४८८
मणुस्सा चउगइया चउआगइया एवं चेव मणुस्सा वि २ ।
[सू० ३६८ ] बेइंदिया णं जीवा असमारभमाणस्स चउविहे संजमे कज्जति, तंजहा - जिब्भामयातो सोक्खातो अववरोवेत्ता भवति, जिब्भामएणं दुक्खेणं असंजोगेत्ता भवति, फासामयातो सोक्खातो अववरोवेत्ता भवति एवं चेव १ ।
बेइंदिया णं जीवा समारभमाणस्स चउविधे असंजमे कज्जति, तंजहाजिब्भामयातो सोक्खाओ ववरोवेत्ता भवति, जिब्भामएणं दुक्खेणं संजोगेत्ता 15 भवति, फासामयातो सोक्खाओ ववरोवेत्ता भवति एवं चेव २|
20
[सू० ३६९] सम्मद्दिट्ठिताणं णेरइयाणं चत्तारि किरियाओ पन्नत्ताओ, तंजहा- आरंभिता, परिग्गहिता, मातावत्तिया, अपच्चक्खाणकिरिया ।
सम्मद्दिट्ठिताणमसुरकुमाराणं चत्तारि किरियाओ पन्नत्ताओ, तंजहा - एवं चेव । एवं विगलिंदियवज्जं जाव वेमाणियाणं ।
[टी०] जीवाधिकारिकं पञ्चेन्द्रियतिर्यग्मनुष्यसूत्रद्वयं सुगमम्, एवं द्वीन्द्रियसूत्रद्वयमपि, नवरं द्वीन्द्रियान् जीवान् असमारभमाणस्य अव्यापादयतः, जिह्वाया विकारो जिह्वामयम्, तस्मात् सौख्याद् रसोपलम्भानन्दरूपादव्यपरोपयिता अभ्रंशयिता, तथा जिह्वामयं जिह्वेन्द्रियहानिरूपं यद् दुःखं तेनाऽसंयोजयितेति ।
जीवाधिकारादेव सम्यग्दृष्टिजीवक्रियासूत्राणि सुगमानि चैतानि, नवरं सम्यग्दृष्टीनां 25 चतस्रः क्रिया मिथ्यात्वक्रियाया अभावात् । एवं विगलिंदियवज्जं ति, एक-द्वि-त्रिचतुरिन्द्रियाणां पञ्चापि, तेषां मिथ्यादृष्टित्वात्, द्वीन्द्रियादीनां च सासादनसम्यक्त्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org