________________
४८७
[सू० ३६६] चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः ।।
अहवा चउव्विहा सव्वजीवा पन्नत्ता, तंजहा-संजता, असंजता, संजतासंजता, णोसंजता णोअसंजता णोसंजतासंजता ।
[टी०] यथोक्तमतिमन्तो जीवा एव भवन्तीति जीवसूत्राणि पञ्च व्यक्तानि चैतानि, नवरं मनोयोगिनः समनस्का योगत्रयसद्भावेऽपि तस्य प्राधान्यादेवं वाग्योगिनो द्वीन्द्रियादय: काययोगिन एकेन्द्रिया अयोगिनो निरुद्धयोगा: सिद्धाश्चेति । अवेदका: 5 सिद्धादयः। चक्षुषः सामान्यार्थग्रहणमवग्रहेहारूपं दर्शनं चक्षुर्दर्शनम्, तद्वन्तश्चतुरिन्द्रियादयः, अचक्षुः स्पर्शनादि, तद्दर्शनवन्त एकेन्द्रियादय इति । संयता: सर्वविरता:, असंयता अविरता:, संयतासंयता देशविरता:, त्रयप्रतिषेधवन्त: सिद्धा इति ।
[सू० ३६६] चत्तारि पुरिसजाता पन्नत्ता, तंजहा-मित्ते नाममेगे मित्ते, मित्ते नाममेगे अमित्ते, अमित्ते नाममेगे मित्ते, अमित्ते णाममेगे अमित्ते । 10
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-मित्ते णाममेगे मित्तरूवे, चउभंगो ।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-मुत्ते णाममेगे मुत्ते, मुत्ते णाममेगे अमुत्ते [ह्व = ४] ।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-मुत्ते णाममेगे मुत्तरूवे ह्व [= ४] । [टी०] जीवाधिकाराज्जीवविशेषान् पुरुषभेदान् चतु:सूत्र्याऽऽह- चत्तारीत्यादिः, 15 स्पष्टा चेयम्, नवरं मित्रमिहलोकोपकारित्वात् पुनर्मित्रं परलोकोपकारित्वात् सद्गुरुवत्, अन्यस्तु मित्रं स्नेहवत्त्वादमित्रः परलोकसाधनविध्वंसात् कलत्रादिवत्, अन्यस्त्वमित्र: प्रतिकूलत्वान्मित्रं निर्वेदोत्पादनेन परलोकसाधनोपकारकत्वादविनीतकलत्रादिवत्, चतुर्थोऽमित्रः प्रतिकूलत्वात् पुनरमित्र: सङ्क्लेशहेतुत्वेन दुर्गतिनिमित्तत्वात्, पूर्वापरकालापेक्षया वेदं भावनीयमिति । तथा मित्रमन्त:स्नेहवृत्त्या मित्रस्येव रूपम् 20
आकारो बायोपचारकरणात् यस्य स मित्ररूप इति एकः, द्वितीयोऽमित्ररूपो बाह्योपचाराभावात्, तृतीय: अमित्र: स्नेहवर्जितत्वादिति, चतुर्थः प्रतीत: ।
तथा मुक्तः त्यक्तसङ्गो द्रव्यतः, पुनर्मुक्तो भावतोऽभिष्वङ्गाभावात् सुसाधुवत् । द्वितीयोऽमुक्तः साभिष्वङ्गत्वात् रङ्कवत् । तृतीयोऽमुक्तो द्रव्यतः, भावतस्तु मुक्तो राज्यावस्थोत्पन्नकेवलज्ञानभरतचक्रवर्त्तिवत्। चतुर्थो गृहस्थ:। कालापेक्षया वेदं दृश्यमिति। 25 १. "त्यादि पा० जे२ ॥ २. मित्रस्यैव खं० पा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org