SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ४८६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे साध्यसाधिका वयोविपाके च पुष्टीभूता अभ्युदयमोक्षफला चेति, यदाह अणुमाणहेउदिटुंतसाहिया वयविवागपरिणामा । हियनिस्सेसफलवती बुद्धी परिणामिया नाम ॥ [आव० नि० ९४८] इति, अभयकुमारादीनामिवेति । 5 तथा मननं मति: तत्र सामान्यार्थस्याशेषविशेषनिरपेक्षस्यानिद्देश्यस्य रूपादे: अव इति प्रथमतो ग्रहणं परिच्छेदनमवग्रहः, स एव मतिरवग्रहमतिरेवं सर्वत्र, नवरं तदर्थविशेषालोचनमीहा, प्रक्रान्तार्थविशेषनिश्चयोऽवायः, अवगतार्थविशेषधरणं धारणेति, उक्तं च सामन्नत्थावग्गहणमोग्गहो भेयमग्गणमिहेहा । 10 तस्सावगमोऽवाओ अविच्चुई धारणा तस्स ॥ [विशेषाव० १८०] इति । तथा अरञ्जरम् उदकुम्भो अलञ्जरमिति यत् प्रसिद्धं तत्रोदकं यत्तत्समाना प्रभूतार्थग्रहणोत्प्रेक्षणधरणसामर्थ्याभावेनाल्पत्वादस्थिरत्वाच्च, अरञ्जरोदकं हि सक्षिप्त शीघ्रनिष्ठं चेति, विदरो नदीपुलिनादौ जलार्थो गर्तः, तत्र यदुदकं तत्समाना अल्पत्वादपरापरार्थोहनमात्रसमर्थत्वात् झगिति अनिष्ठितत्वाच्च, तदुदकं ह्यल्पं 15 तथाऽपरापरमल्पमल्पं स्यन्दते, अत एव च क्षिप्रमनिष्ठितं चेति, सरउदकसमाना तु विपुलत्वाद् बहुजनोपकारित्वादनिष्ठितत्वाच्च, प्राय: सरोजलस्याप्येवंभूतत्वादिति, सागरोदकसमाना पुनः सकलपदार्थविषयत्वेनात्यन्तविपुलत्वादक्षयत्वादलब्धमध्यत्वाच्च, सागरजलस्यापि ह्येवंभूतत्वादिति ।। [सू० ३६५] चउव्विहा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-णेरइता, 20 तिरिक्खजोणिया, मणुस्सा, देवा । चउव्विहा सव्वजीवा पत्नत्ता, तंजहा-मणजोगी, वइजोगी, कायजोगी, अजोगी। अहवा चउव्विहा सव्वजीवा पन्नत्ता, तंजहा-इत्थिवेदगा, पुरिसवेदगा, णपुंसकवेदगा, अवेदगा । 25 अहवा चउब्विहा सव्वजीवा पन्नत्ता, तंजहा-चक्खुदसणी अचक्खुदंसणी ओहिदसणी, केवलदसणी । १. महेहा जे१ खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy