SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ [सू० ३६४] चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । श्रद्धालुतां श्राति पदार्थचिन्तनाद्धनानि पात्रेषु वपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवनादथापि तं श्रावकमाहुरञ्जसा ॥ [ एवं श्राविका अपीति । तथा उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी ननु क्षयोपशमः कारणमस्याः, सत्यम्, किन्तु स खल्वन्तरङ्गत्वात् सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छास्त्र- 5 कर्माभ्यासादिकमपेक्षत इति, अपि च- बुद्ध्युत्पादात् पूर्वं स्वयमदृष्टोऽन्यतश्चाश्रुतो मनसाऽप्यनालोचितस्तस्मिन्नेव क्षणे यथावस्थितोऽर्थो गृह्यते यया सा लोकद्वयाविरुद्धैकान्तिकफलवती बुद्धिरौत्पत्तिकीति, यदाह पुव्वमदिट्ठमसुयमचेड़यतक्खणविसुद्धगहियत्था । अव्वाहयफलजोगा बुद्धी उप्पत्तिया नाम ॥ [ आव० नि० ९३९] इति, ] इति, यदाह नटपुत्ररोहकादीनामिवेति । तथा विनयो गुरुशुश्रूषा, स कारणमस्यास्तत्प्रधाना वा वैनयिकी, अपि चकार्यभरनिस्तरणसमर्था धर्मार्थकामशास्त्राणां गृहीतसूत्रार्थसारा लोकद्वयफलवती चेयमिति, ४८५ भरनित्थरणसमत्था तिवग्गसुत्तत्थगहिअपेयाला । उभओ लोगफलवती विणयसमुत्था हवड़ बुद्धि || [ आव० नि० ९४३] त्ति, नैमित्तिकसिद्धपुत्रशिष्यादीनामिवेति । अनाचार्यकं कर्म्म, साचार्यकं शिल्पम्, कादाचित्कं वा कर्म्म, नित्यव्यापारस्तु शिल्पमिति, कर्म्मणो जाता कर्म्मजा, अपिच - कर्माभिनिवेशोपलब्धकर्म्मपरमार्था कर्म्माभ्यास-विचाराभ्यां विस्तीर्णा प्रशंसाफलवती चेति, यदाह उवओगट्टिसारा कम्मपसंगपरिघोलणविसाला । साहुक्कारफलवती कम्मसमुत्था हवइ बुद्धी ॥ [ आव० नि० ९४६ ] इति, हैरण्यक - कर्षकादीनामिवेति । Jain Education International For Private & Personal Use Only 10 15 परिणामः सुदीर्घकालपूर्वापरार्थावलोकनादिजन्य आत्मधर्म्मः स प्रयोजनमस्यास्तत्प्रधाना वेति पारिणामिकी, अपिच - अनुमानकारणमात्रदृष्टान्तै: 25 १. 'मवेइ' जे१ विना ॥ 20 www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy