SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ 5 आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [सू० ३६३] चउव्विहे संघे पन्नत्ते, तंजहा - समणा, समणीओ, सावगा, साविगाओ । [सू० ३६४ ] चउव्विहा बुद्धी पन्नत्ता, तंजहा - उप्पत्तिया, वेणड्या, कम्मया, पारिणामिया | चउव्विधा मती पन्नत्ता, तंजहा - उग्गहमती, ईहामती, अवायमती, धारणामती । अहवा चउव्विहा मती पन्नत्ता, तंजहा - अरंजरोदगसमाणा, वियरोदगसमाणा, सरोदगसमाणा, सागरोदगसमाणा । [टी०] चतुर्विधकर्म्मस्वरूपं सङ्घ एव वेत्तीति सङ्घसूत्रम्, सच 10 सर्वविद्वचनसंस्कृतबुद्धिमानिति बुद्धिसूत्रम्, बुद्धिश्च मतिविशेष इति मतिसूत्रे, सुगमानि चैतानि, नवरं सङ्घ गुणरत्नपात्रभूतसत्त्वसमूहः, तत्र श्राम्यन्ति तपस्यन्तीति श्रमणाः, अथवा सह मनसा शोभनेन निदानपरिणामलक्षणपापरहितेन च चेतसा वर्त्तन्त इति समनसः, तथा समानं स्वजन-परजनादिषु तुल्यं मनो येषां ते समनस:, उक्तं चतो समणो जड़ सुमणो भावेण य जड़ न होइ पावमणो । सयणे य जणे य समो समो य माणावमाणेसुं ॥ [ दशवे० नि० १५६ ] अथवा समिति समतया शत्रु - मित्रादिष्वणन्ति प्रवर्त्तन्त इति समणाः, आह चत् य सि कोइ सो पिओ व सव्वेसु चेव जीवेसु । एएण होइ समणो एसो अन्नो वि पज्जाओ ॥ [ दशवै० नि० १५५ ] इति । प्राकृततया सर्वत्र समण त्ति, एवं समणीओ, तथा शृण्वन्ति जिनवचनमिति श्रावका:, 20 उक्तं च 15 ४८४ अवाप्तदृष्ट्यादिविशुद्धसम्पत्, परं समाचारमनुप्रभातम् । शृणोति यः साधुजनादतन्द्रस्तं श्रावकं प्राहुरमी जिनेन्द्राः ॥ [ ] इति । अथवा श्रान्ति पचन्ति तत्त्वार्थश्रद्धानं निष्ठां नयन्तीति श्रा:, तथा वपन्ति गुणवत्सत्त्वक्षेत्रेषु धनबीजानि निक्षिपन्तीति वाः, तथा किरन्ति क्लिष्टकर्म्मरजो 25 विक्षिपन्तीति काः, ततः कर्म्मधारये श्रावका इति भवति, यदाह १३२, आव० नि० ८६७ ॥ २. गाथेयम् - अनुयोगद्वार० सू० ॥ १. गाथेयम् - अनुयोगद्वार० सू० ५९९ - गा० ५९९ - गा० १३०, आव० नि० ८६८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001028
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 02
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages579
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy