________________
४८१
5
[सू० ३६१] चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । अहिंस्रमकलुषम् अप्रीतिवर्जितमिति, जिह्वाऽपि च मधुरभाषिणी नित्यं यस्मिन् पुरुषे विद्यते स पुरुषो मधुकुम्भ इव मधुकुम्भो मधुपिधान इव मधुपिधान इति प्रथमभङ्गयोजना, तृतीयगाथायां यद् हृदयं कलुषमयम् अप्रीत्यात्मकमुपलक्षणत्वात् पापं च जिह्वा या मधुरभाषिणी नित्यं तत् सा चेति गम्यते यस्मिन् पुरुषे विद्यते स पुरुषो विषकुम्भो मधुपिधानस्तत्साधर्म्यादिति १४ ।
[सू० ३६१] चउव्विहा उवसग्गा पन्नत्ता, तंजहा-दिव्वा, माणुसा, तिरिक्खजोणिया, आतसंचेयणिज्जा १ ।
दिव्वा उवसग्गा चउव्विहा पन्नत्ता, तंजहा-हासा, पओसा, वीमंसा, पुढोवेमाता २ ।
माणुसा उवसग्गा चउव्विधा पन्नत्ता, तंजहा-हासा, पओसा, वीमंसा, 10 कुसीलपडिसेवणया ३ । __ तिरिक्खजोणिया उवसग्गा चउव्विहा पन्नत्ता, तंजहा-भता, पदोसा, आहारहेडं, अवच्चलेणसारक्खणया ४ ।
आतसंचेयणिज्जा उवसग्गा चउव्विहा पन्नत्ता, तंजहा-घट्टणता, पवडणता, थंभणता, लेसणता ५ ।
.
15 [टी०] अत्र च चतुर्थः पुरुष उपसर्गकारी स्यादित्युपसर्गप्ररूपणाय चउव्विहा उवसग्गेत्यादि सूत्रपञ्चकमाह, कण्ठ्यं चेदम्, नवरमुपसर्जनान्युपसृज्यते वा धर्मात् प्रच्याव्यते जन्तुरेभिरुपसगर्गा बाधाविशेषाः, ते च कर्तृभेदाच्चतुर्विधाः, आह च
उवसजणमुवसग्गो तेण तओ य उवसिज्जए जम्हा । सो दिव्वमणुयतेरिच्छआयसंचेयणाभेओ ॥ [विशेषाव० ३००५] इति,
आत्मना संचेत्यन्ते क्रियन्त इत्यात्मसंचेतनीयाः, तत्र दिव्याः हास त्ति हासाद् भवन्ति, हाससम्भूतत्वाद्वा हासा उपसर्गा एवेत्येवमन्यत्रापि, यथा भिक्षार्थं ग्रामान्तरप्रस्थितक्षुल्लकैय॑न्तर्या उपयाचितं प्रतिपन्नं 'यदीप्सितं लप्स्यामहे तदा तवोण्डेरकादि दास्यामः' इति, लब्धे च तत्र तवेदमिति भणित्वा तदुण्डेरकादि तैः स्वयमेव भक्षितम्, देवतया च हासेन तद्रूपमावृत्य क्रीडितम्, अनागच्छत्सु च क्षुल्लकेषु 25 व्याकुले गच्छे निवेदितमाचार्याणां देवतया क्षुल्लकवृत्तम्, ततो वृषभैरुण्डेरकादि याचित्वा
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org